________________
द्रव्याभ्यन्तरप्रत्युपेक्षणा।
श्रीमती ओपनियुक्तिः ॥८॥
बाह्यया विशुद्धा एव स्युस्तथाप्यन्तः- [अभ्यन्तरतः] अभ्यन्तरा प्रत्युपेक्षणा द्विधा, द्रव्यभावभेदेन ॥१६४॥ अधुना द्रव्याभ्यन्तरमाह
पविसंत णिमित्तमणेसणं व, साहइ ण एरिसा समणा । ___ अम्हंपि ते कहती, कुक्कुडखरियाइ ठाणं च ॥१६५॥ प्रविशन् भिक्षार्थ निमित्तं पृच्छयते गृहस्थैन कथयति, अनेषणां क्रियमाणां निवारयति। 'सा' गृही कथयति नास्मदीयश्रमणा एवंविधाः,ते निमित्तादि कथयन्ति । अनेषणीयमपि लान्ति । एवमभिधीयते गृहस्थेन । 'कुकुड'त्ति कुर्कुटप्रायोऽयमिति । एवं भिक्षामटता प्रत्युपेक्षणा कृता । इदानीं दूरस्थ एवोपाश्रयसक्तां कराति । 'ख'यक्षरिका वेश्या तत्समीपे उपाश्रयः । वसतिबाह्या प्रत्युपेक्षणोक्ता ॥१६५।। उपाश्रयाभ्यन्तरे द्रव्यत आह
दव्वंमि ठाणपुलए, सेज्जा-संथार-काय-उच्चारे ।।
कंदप्पगिह-विकहा, वुग्गह-किड्डा य भावंमि ॥१६६॥ द्रव्यमिति द्वारपरामर्शः । वर्षाकाल विनाऽपि फलकेऽवस्थितिः, शय्याऽस्तृतैवास्ते । संस्तरकास्तृणमयाः, प्रकीर्यन्तेऽवस्तृणानि स्वपद्भिः, तं संस्तारकं पश्यति । 'काय'त्ति कायिकाभूमि गृहस्थसम्बद्धां पश्यति । उच्चारयन्ति गृहस्थैः सह व्युन्सर्ग कुर्वन्ति, अथवा उच्चारं-श्लेष्मपरिष्ठापनमङ्गणे करोति, इयमाभ्यन्तरा द्रव्यतः । भावत आह
For Private & Personal use only
॥८
॥
Jain Education International