________________
श्रीमती मोघनियुक्तिः ॥७७॥
ईर्यापथिकी प्रतिक्रान्तः सन् कियन्मात्र परिगुणयति । गुणनात्समधातुं दृष्ट्वेद' वक्ति वैद्यः । संहिता
कारणेऽस्थण्डिले चरकसुश्रुतरूपा का भवताधीता? येन गतमात्रणेव न भुक्त। साधुराहास्माकमयं सर्वज्ञोपदेशो यदुत-स्वाध्याय
आहारस्तस्य कृत्वा भुज्यते । ततश्च धर्मकथां कथयति । पश्चात्तस्य द्विविधा प्रतिपत्तिः । कदाचित्संयतो भवेत् कदाचित् श्रावक
नयनादिइति । देवकुलादौ भुजानस्यायं विधिः । तदभावेऽनुकूलमार्गव्यवस्थितं स्थण्डिलं प्रति प्रयाति ॥१५६॥
विधिश्च । थंडिल्लासइ चीरं, णिवायसंरक्खणाइ पंचेव ।
सेसं जा थंडिल्लं, असईए अण्णगामंमि ॥१५७॥ स्थण्डिले गत्वा भुक्ते, म्थण्डिलेऽसति यदि क्षुधा पीड्यते तदाऽस्थण्डिलेऽपि चीरं विस्तार्य पादयोरधः परिशाटरक्षणार्थ त्रीन् पश्च वा कवलान् भुङ्क्ते । शेष' स्थण्डिले नयति । तदऽलाभेऽन्यग्रामे प्रयाति तत्र च स्थण्डिले भुङ्क्ते । ॥१५७॥ यदुक्त 'कालदुवे'त्ति तदाह
अपहुप्पंते काले, तं चेव दुगाउयं णऽइक्कामे । गोमुत्तिअदड्ढाइसु, भुंजइ अहवा पएसेसु ॥१५८॥
७७॥ अथ तस्य गच्छतो योऽभिप्रेतग्रामः स क्रोशत्रये संजातः । ततः पर्याप्यमाणे प्रभूते काले सति पूर्वगृहीतं || भक्तं त्यक्त्वाऽन्यद् गृहणाति । अथाऽस्तमनकालस्ततस्तदेव क्षेत्रातिक्रान्तमपि भुङ्क्ते, यदि कालः पर्याप्यते
Jain Education International
For Private & Personal use only
www.jainelibrary.org