________________
गोपनियुक्तिः
भिक्षावेलाप्रतीक्षायां कारणानि।
॥६९॥
अह जग्गइ गेलण्णं, अस्संजयकरणजीववाघाओ ।
इच्छमणिच्छे मरणं, गुरुआणा छड्डणे काया ॥१३०॥ स्निग्धाहारभक्षणे जागरणं करोति, सूत्रार्थपौरुषी करोतीत्यर्थः, ततश्च ग्लानत्वं भवति, तस्य यद्यसंयतः प्रतिजागति इच्छति च तदा जीवव्याघातः, अथ नेच्छति मरणं, ततो गुर्वाज्ञालोपश्च कृतः स्यात् मृतस्य च 'छडणे'-परित्यागे गृहस्थाः षट्कायव्यापादनं प्रकुर्वन्ति ॥१३८॥ दोषत्यागमाह
तकोयणाण गहणे, गिलाण आणाइया जढा होति ।
अप्पत्तं च पडिच्छे, सोच्चा अहवा सयं गाउं ॥१३९॥ तक्रौदनादिग्रहणे ग्लानत्वदोषाऽऽज्ञाभङ्गदोषादिका, आदिशब्दात्पलिमन्थदोषः, एते जढाः- त्यक्ताः स्युः । कारणान्तरेण प्रतिषिद्धस्यानुज्ञामाह-'अप्पत्ते'त्ति अप्राप्तामपि वेलां प्रतिपालयति, वक्ष्यमाणान् दोषान् श्रुत्वा पथिकादेः सकाशात् , अथ [वा] स्वयं ज्ञात्वा ॥१३९॥ दोषानाह
दूरुट्ठिअ खुड्डुलए, नव भड अगणी अ पंत पडिणीए ।
अप्पत्तपडिच्छण पुच्छ, बाहिं अंतो पविसिअव्वं ॥१४०॥ कदाचिद् ग्रामो दूरे स्यात् , उद्वसितो, लघुर्वा, नवो वा, तत्र च सचित्तपृथ्वीकायसद्भावात् , भटाऽऽक्रान्तो ID)
॥६९॥
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org.