SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ स्वमार्गाननु __ श्रीमती ओपनियुक्तिः ॥६७॥ स्थेषु व्रजाति गमनव्याघातादि स हि अनुकूलपन्थानमृत्सृज्य उद्वर्त्तते, यता व्रजस्ततो याति, ब्रजे च प्राप्तः सन्नप्राप्तां वेलां प्रतीक्षते, ततश्च क्षीरं गृहणाति, पीते क्षीरे पथि गच्छति, तेन भिन्नो, मुहुर्मुहुः पुरीपोत्सर्ग करोति, तत्र षट्कायविराधना, तद्वेगधरणे मरणं, द्रवविरोधः, द्रवेण-काजिकेन विरोधः, अथवा द्रवम्-उदक' तेन निर्लेपनं करोति सागारिक । पुरतः, अथ न करोत्युड्डाहः - प्रवचनहीला भवति । अथवा द्रवविरोधो विनाशो, यतस्तृषितः सँस्तदेव पिबति । एवं ब्रजे यात आत्मविराधना गमनविघातश्च स्यात् ॥१३४॥ उक्त व्रजद्वारम् । अथ ग्रामद्वारम् खदादाणिअगामे, संखडि आइण्ण खद्धगेलण्णे । सण्णी दाणे भद्दे, अप्पत्तमहाणिणादेसु ॥१३५॥ खदादानिकग्रामः- समृद्धग्रामस्तस्मिन्नु' द्वर्त्तनं कुर्वतस्त एव दोषाः, गतं ग्रामद्वारम् । संखडिद्वारमाह - संखड्यामुद्वर्त्ततेऽप्राप्तां वेलां प्रतिपालयति, तत्र च 'आइण्णेत्ति आकीर्ण सम्बाधनं स्त्रीस्पर्शादिदोषाः, 'खर्बु'-प्रभूतमुच्यते, भूरिभक्षणे मान्य स्यात्, त एव दोषा वोसिरणादिकाः, उक्तं संखडिद्वारम् । अथ संज्ञिद्वारं-'सन्नित्ति सज्ञिनं श्रुत्वोद्वर्तते, तत्र त एव दोषाः, उक्त सज्ञिद्वारम् । अथ दानश्राद्धकद्वारम् स कदाचित्प्रभूतं ददाति, तत्रापि त एव दोषाः, अथ भद्रकद्वारम् । कश्चित् स्वभावेन साधुर्भद्रकः स्यात्तत्रापि त एव दोषाः । महानिनादकुलेषु प्रख्यातेपद्वाऽप्राप्तां वेलां प्रतिपालयति, तत्रापि त एव दोषाः ॥१३५॥ १ उर्तिन-गमनमिति भावः सं० । ॥६७॥ Jan Edana For Private & Personal use only awranaw.jaineibrary.org
SR No.600075
Book TitleOgh Niryukti
Original Sutra AuthorBhadrabahuswami, Gyansagarsuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages494
LanguageSanskrit, Hindi
ClassificationManuscript & agam_oghniryukti
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy