________________
मिती नियुक्तिः ६१॥
ग्लानं प्रति कर्तव्यता।
पंतं असहू करित्ता, णिवेयणं गहण अहव समणुण्णा ।
खग्गूड देहि तं चिअ, कमढग तस्सप्पणो पाए ॥११९॥ १प्रान्तं -नीरसं, असमर्थों भुक्त्वा याति, तत्र प्राप्तः सन्निवेदनं करोत्याचार्याय, सोऽप्याचार्यों गृह्णाति तद् ग्लानार्थम्, अथ 'समणुण्ण'त्ति तस्यैवानुज्ञां करोति, भक्षयेदं, ग्लानार्थमन्यदपि भविष्यति । अथाऽचार्यः खग्गूडः - शठ इदं वक्ति-त्वमेव ग्लानाय प्रयच्छ किं ममानेन ? एवमुक्ते स तत्र गत्वा तस्य कमढके पात्रे, तदभावे स्वस्य वा पात्रे कृत्वा ददाति ॥११९॥ पुनरप्याचार्य प्रतीदं वक्ति
कि कोरउ ? जं जाणसि, अतरंति सढे ति वच्च तं भंते ! । _णिद्धम्मा ण करेंती, करणमणालोइयसहावो ॥१२०॥ हे आचार्य! ग्लानस्यान्यत् किं क्रियते ? स आह-यज्जानासि तत् कुरु, पुनरसौ तत्समीपं गच्छति । 'अत०' || ग्लानोऽपि वक्ति, शठा एते त्वां खलीकुर्वन्ति, व्रज, सन्ति मे परिचारकाः, एवमुक्ते याति, अथैवं वक्ति निर्धर्मा एते न कुर्वन्ति मे परिचेष्टां, ततोऽसौ 'करण'त्ति वैयावृत्त्यं करोति, ग्लानं च ब्रवीति- 'अणा.' अमीषां निर्धर्माणां मध्येऽनालोचिताप्रतिक्रान्तः कथंचिदेव त्वं न मृत इति,अत एवमभिधाय तमात्मसहायं कृत्वा प्रयाति ॥१२०॥ १ प्रान्त नीरस भुक्त्वा समर्थो यति: तत्र प्राप्तः का० । ॥KI
॥६
॥
Jain Education international
For Privale & Personal use only
www.jainelibrary.org