________________
गोमती नियुक्तिः १४२॥
कवलप्रमाणम् आहारविधिश्च।
अह होज्ज णिद्धमहुराणि, अप्पपरिकम्म-सपरिकम्मेहिं ।
भोत्तूण णिद्धमहरे, फुसिअ करे मुंचऽहागडए ॥८६४॥ अथ भवेयुः(k) स्निग्धानि मधुराणि चाल्पपरिकर्मसु पात्रेषु ततः को विधिः? इत्याह-स्निग्धादीनि भुक्त्वा करौ प्रोञ्छयित्वा यथाकृतान्यपरिकर्माणि समुद्दिशनार्थ मुच्यन्ते ॥८६४॥ ग्रहणद्वारमाह
कुकुंडिअंडगमित्तं, अहवा खुड्डागलंबणासिस्स ।
लंबणतुल्ले गिण्हइ, अविगियवयणो य राइणिओ ॥८६५॥ अथवा १क्षुल्लकः लम्बनाशिनः-लघुकवलभोजिनस्तुल्यान् कवलान् गृहणाति, अविकृतवदनो रत्नाधिको न भावदोषेण मुखमत्यर्थ बृहत्कवलक्षेपार्थ निर्वाहयति किंतर्हि ?, स्वभावस्थेनैव मुखेनेति ॥८६५॥ अथवाऽयं ग्रहणविधिः
___ गहणे पक्खेवंमि अ, सामायारी पुणो भवे दुविहा ।
गहणं पायंमि भवे. वयणे पक्खेवणा होइ ॥८६६॥ ___ग्रहणे प्रक्षेपे च कवलानां द्विधा सामाचारी, ग्रहणं पात्रकाकवलोत्क्षेपः प्रक्षेपणं वदनविषयम् ॥८६॥ पात्रात्कथ गृह्यते तदाह
१ क्षुल्लकेन लम्बनकेनाऽशितुं शील' यस्य तस्य क्षुल्लकलम्बनाशिनः ||
॥३४२॥
Jain EducTANI national
For Privale & Personal Use Only
Jww.jainelibrary.org