________________ मोघ नेयुक्तिः नीमती || अत्रोच्यते, नैवं येनैव संक्षेपग्रन्थोऽयं तेनैव लक्षणेनेत्थं सामान्येनार्हतां नमस्कारोऽभिहितो न विशेषेणैकैकस्य श्रीचतुर्दश तीर्थकृतः, तथा भगवतामुपकारकारित्वान्नमस्कारः क्रियते / ये च चतुर्दशपूर्विणस्तेप्युपकारका, यतोऽर्थतस्तीर्थकराः पूर्वधरादीनां [उपकारकाः] सूत्रतश्चतुर्दशपूर्विगणधराः [उपकारकाः। अथवा व्यवहितोपकारकत्वेनाईन्तोऽव्यवहितोपकारकत्वेन नते॥४॥ Dचर्चादि। [चतुर्दशपूर्वधराः] अस्याचार्यस्य [उपकारका अतः] चतुर्दशपूर्विणां नमस्कारः कृतः। / यच्चोक्त चतुर्दशपूर्व्यादिनमस्कारेणैव शेषाणां भविष्यति किं दशपूर्व्यादिनमस्कारेण ?, अथ भेदेन तर्हि त्रयोदशपूर्व्यादीनामपि, तदसाधु। यतो दशपूर्वधरा अप्युपकारका, उपाङ्गादीनां संग्रहण्युपरचनेन हेतुना / अथवाऽस्यामवसपिण्यां चतुर्दशपूर्व्यनन्तरं दशपूर्विण एव जाता न त्रयोदशपूर्विणः, अथवाऽन्यत् प्रयोजनं चतुर्दशपूर्विणो दशपूर्विणश्च नियमेनैव सम्यग्दृष्टय इति ज्ञापनार्थ तन्नमस्कारः। पुनरप्याह गुणाधिकस्य वन्दनं नत्वधमस्य, भद्रवाहस्वामिनश्चतुर्दशपूर्वित्वादशपूर्व्यादयो न्यूनाः, तत्किं तेषां नमस्कारं करोतीति ? नैवं, गुणाधिका एव तेऽव्यवच्छित्तिगुणकारकत्वाददोषः। किमर्थमेकादशाङ्गसूत्रार्थधारकाणामिति ? तदुच्यते, इह चरणकरणात्मिका ओपनियुक्तिरेकादशाङ्गसूत्रार्थधारिणश्च चरणकरणवन्तोऽतो न दोषः। किमर्थ साधूनामिति चेत् , ते तु चरणकरणनिष्पादकास्तदर्थ चायं सर्व एव प्रयास इति / चशब्दात् सिद्धनमस्कारः, किमर्थ सिद्धनमस्कारः पश्चादभिधीयते ? / अपित्वहनमस्कारानन्तरं वाच्यः ? उच्यते, यान्यहंदादीनि पदानि तेषां सर्वेषां सिद्धाः फलभूता इति प्रदर्शनार्थमित्यलं प्रसङ्गेन // 1 // // 4 // Jain Educ a tional For Private & Personal use only rwww.jainelibrary.org