SearchBrowseAboutContactDonate
Page Preview
Page 140
Loading...
Download File
Download File
Page Text
________________ श्रीमती निर्युक्तिः ॥१२२॥ आचार्योपधि बालादीनां च संहननोपेताः गृणन्ति, द्वौ सौत्रिको कल्पौ एक और्णिकः कल्पः संस्तारकः चशब्दादुत्तरपट्टः, एषां ग्रहणं 'इकपासेणं' ति एकस्मिन् पार्श्वे एकत्र स्कन्धे स्थापयन्ति, द्वितीयस्कन्धे पात्रकाणि, आत्मीयां तूपधि विष्टलिकां कृत्वा यत्र स्कन्धे उपधिः कृतः तयैव दिशा कक्षायां करोति ॥ २६५ || 'अधिकरणतेणे' त्यवयवमाह आउज्जोवण वणिए, अगणि कुटुंबा कुकम्म कम्मरिए । तेणे मालागारे, उन्भामग पंथिए जंते ॥२६६॥ रात्रौ सशब्दं व्रजतामेते दोषाः - अपां यन्त्राणि योत्रयन्ति, अथवाऽकायाय योषितो विबुद्धा व्रजन्ति, 'जोवणं' ति धान्यप्रकरस्तदर्थं लोको याति, प्रकरो-मर्दनं धान्यस्य, लाटविषये 'जोवणं धष्णपइरणं भन्नइ' 'व०' वणिजो वा विभातमिति यान्ति, लोहकारशालादिष्वग्निः प्रज्वाल्यते, कुटुम्बिनः स्वकर्मणि लगन्ति । कुकर्माणो मात्सिकादयः, कुत्सिता माराः कुमाराः - सौकरिकास्तेषां प्रबोधः स्यात्, पूत्कारादिना स्तेनकानाञ्च, मालाकारा विबुध्यन्ते, 'उभा' ० पारदारिकाः 'पं०' पथिकाः, 'जं०' यन्त्रका यन्त्राणि वाहयन्ति चाक्रिकादयः || २६६ || यदुक्त' ' णट्टे खग्गड संगारे 'ति तत्र सामान्येन, अत्र तु संगारः कया यतनया कस्यां वा वेलायां कर्त्तव्यस्तदाहसंगार बीय वसही, तइए सण्णी चउत्थ साहम्मी । पंचमगमि अ वसही, छट्टे ठाणट्टिओ होति ॥ २६७॥ For Private & Personal Use Only Jain Educational रात्रौ सशब्द याताम् दोषाः । ॥१२२॥ www.jainelibrary.org
SR No.600075
Book TitleOgh Niryukti
Original Sutra AuthorBhadrabahuswami, Gyansagarsuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1974
Total Pages494
LanguageSanskrit, Hindi
ClassificationManuscript & agam_oghniryukti
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy