________________
श्रीमती नोघनिर्युक्तिः
॥१०४॥
Jain Education
दिवा प्रत्यपायो वा रात्रौ वा प्रत्यपायः न वा प्रत्यपाय इत्येतज्जानाति । तथा दिवाऽयं पन्थाः सुगमो 'पे०' दुर्गमो वा रात्रौ वेति यत्परिज्ञानं सा कालतः । भावतो यदुत स विषयो देशः स्वपक्षेण परपक्षेण वा आक्रान्तो व्याप्तः, निह्नवादि: स्वपक्षः, आदिग्रहणाच्चरकपरिव्राजकादिः परपक्षः, एभिरनवरत प्रार्थ्यमानो लोको न किञ्चिद्दातुमिन्छति इत्येवं या निरूपणा सा भावतः || २१९ || कथं पुनस्ते व्रजन्तीत्याह
सुत्तत्थं अकरिता, भिक्ख काउं अइंति अवरहे ।
वियदिणे सज्झाओं, पोरिसिअाइ संघाडो ॥ २२०॥
सूत्रार्थपौरुष्यौ चाकुर्वन्तो व्रजन्ति तावद्यावदभिमतं क्षेत्रं प्राप्ताः भिक्षां कृत्वा तदाऽऽसन्नग्रामे १ तद्बहिर्वा भक्षयित्वाऽपराह्णे प्रविशन्ति, वसतिमन्वेषयन्ति, लब्धायां वसतौ कालं गृहीत्वा द्वितीयदिने किञ्चिन्न्यूनपौरुषीं स्वाध्यायं कृत्वा, 'पो०' पौरुपीकाले संघाटको भिक्षार्थ प्रविशति, अथवा स्वाध्यायं कियन्तमपि कालं कृत्वाऽर्द्धपौरुष्यां भिक्षार्थ प्रविशन्ति || २२०|| प्रविष्टाः सन्तः
खेतं तिहा करेत्ता, दोसीणे णीणिअंमि अ वयंति । अण्णो लको बहुओ, थोवं दे माय रुसेजा || २२१॥
१ तद्वहिर्वेत्यशो न 'k' संज्ञकप्रती ।
For Private & Personal Use Only
भिक्षार्थ गच्छता त्रिधाक्षेत्रविभागः कार्यः ।
॥१०४॥
jainelibrary.org