________________ उपक्रमः। भीमती मोनियुक्तिः। // 6 // गमोद्धारकाऽऽचार्यवर्यसत्प्रेरणयाऽऽगमादिप्रवरसाहित्यप्रकाशक-श्रीमद् देवचन्द्र लालभाई जैनपुस्तकोद्धारकोशव्यवस्थापकैः श्रीमदागमोद्धारकध्यानस्थस्वर्गताऽऽचार्यदेवश्रीलघुशिष्यवर्य-पूज्य-पंन्यास श्रीसूर्योदयसागरजिन्महाराजद्वारा प्रवररीत्या सुसम्पाद्य प्रकाशमानीता / समुचितं चाऽस्याः सम्पादनं पूज्यवयः पंन्यासप्रवरैः सम्यक् प्रयस्य विविधहस्तलिखितप्रतीः समानाय्य विविधपाठभेदान् सङ्कलय्य विविधपरिशिष्टांश्च प्रगुणीकृत्य विहितमस्ति, तदर्थं च ते च नितरां सुधन्यवादाहः समभिवन्दनीयाश्च / समस्तश्रमणसङ्घसेवायां सादर' समभ्यर्थनगर्भ निवेदनं यत् विशुद्धसंयमिजीवनपद्धतिसमुज्जीवकविविधपदार्थगर्भितौघनियुक्तिग्रन्थस्यास्य परमार्थाऽवधारणायाऽतिसुगमशैल्या बालजीवोपयोगिन्या शैल्या ग्रन्थस्थपदार्थव्यावर्णि का ह्येषाऽवचूरिः सुतरां पठनीयाऽध्येतव्या मननीया च सम्यक सम्प्रधार्या च श्रीगुरुचरणानां निश्रयेति / . प्रस्तुते ह्यस्मिन्नुपक्रमे मतिमन्दता-छायस्थ्यप्रयुक्तदोषादिना यत् किञ्चित् क्षुतं भवेत् तत् सर्व मिथ्यादुष्कृतद्वारा परिमृज्य प्रस्तुतग्रन्थपरमार्थ ज्ञानिगुरुचरणयोः समर्पणभावेनाऽवबुध्य जीवनविषयीकृत्य चाऽऽत्मतत्वविशदप्रकाशाऽधिगति समे मुमुक्षवः प्रकुर्युरिति शुभाऽऽशंसापूर्वकं विरमे / // 6 // Jain Education For Private & Personal use only Manelibrary.org