SearchBrowseAboutContactDonate
Page Preview
Page 95
Loading...
Download File
Download File
Page Text
________________ ॐॐॐॐॐॐॐॐॐ प्यसाराः पार्श्वस्थादयो लोकोत्तराः कुगुरवः प्रथमभङ्गपातिनो ज्ञेयाः १। एवं लौकिका अपि विप्रादयो बौद्धयोगितापसादयश्च, बहिरन्तश्च श्रुताभावेन प्रथमभङ्गानुपातिन एव । श्रुताभावश्च तेषां द्विधापि जिनवचनवाह्यत्वात् , जिनवचनव्यतिरिक्तशास्त्राणां च श्रुतत्वाभावात् , तेषां श्रुतत्वाभावश्च गर्दभलिण्डवत् क्षोदाक्षमत्वात्, जीववधासत्यस्तैन्याब्रह्मादी-||2|| नामपि धर्मत्वेन प्ररूपकत्वाच्च । तदुक्तं धनपालपण्डितेन-"स्पर्शो मेध्यभुजां गवामघहरो वन्द्या विसंज्ञा दुमाः, स्वर्गइछागवधाद्धिनोति च पितॄन् विप्रोपभुक्ताशनम् । आप्ताश्छद्मपराः सुराः शिखिहुतं प्रीणाति देवान् हविः, स्फीतं फल्गु च वल्गु च श्रुतिगिरां को वेत्ति लीलायितम् !॥१॥" योगशास्त्रान्तरश्लोकेष्वपि-"अयं दशविधो धर्मो, मिथ्याग्भिन || ला वीक्षितः । योऽपि कश्चित् कचित् प्रोचे, सोऽपि वाङमात्रनर्तनम् ॥ १॥ तत्त्वार्थो वाचि सर्वेषां, केषांचन मनस्यपि । क्रिययापि नरीनति, नित्यं जिनमतस्पृशाम् ॥२॥ वेदशास्त्रपराधीन-बुद्धयः सूत्रकण्ठकाः। न लेशमपि जानन्ति, धर्मरत्नस्य तत्त्वतः ॥ ३॥ गोमेधनरमेधाश्वमेधाद्यध्वरकारिणाम् । याज्ञिकानां कुतो धर्मः, प्राणिघातविधायिनाम् ! ॥४॥ अश्रद्धेयमसद्भूतं, परस्परविरोधि च । वस्तु प्रलपतां धर्मः, कः पुराणविधायिनाम् ! ॥५॥ असद्भूतव्यवस्थाभिः, पराद् द्रव्यं जिघृक्षताम् । मृत्पानीयादिभिः शौचं, स्मार्तादीनां कुतो ननु ! ॥६॥ ऋतुकाले व्यतिक्रान्ते, भ्रूणहत्याऽभिधायिनाम् ।। ब्राह्मणानां कुतो ब्रह्म, ब्रह्मचर्यापलापिनाम् ! ॥७॥ अदित्सतोऽपि सर्वस्वं, यजमानाजिघृक्षताम् । अर्थार्थ त्यजतां प्राणान्,। काकिञ्चन्यं द्विजन्मनाम् ! ॥ ८॥ दिवसे च रजन्यां च, मुखमापृच्छय खादताम् । भक्ष्याभक्ष्याविवेकानां, सौगतानां कुत-10 स्तपः ॥ ९॥ मृद्धी शय्या प्रातः पेया, मध्ये भक्तं सायं पानम् । द्राक्षाखण्डं रात्रेमध्ये, शाक्योपज्ञः साधुर्धर्मः ॥१०॥ 0000000000000000000 JainEducation a l For Private & Personel Use Only प w.jainelibrary.org
SR No.600073
Book TitleUpdesh Ratnakara
Original Sutra AuthorMunisundarsuri
AuthorAmrutlal
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages486
LanguageSanskrit, Hindi
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy