________________
मुनिसुन्दर सू० वि०
॥ २२८ ॥
Jain Education Inte
दोषत्वं च बहुशः सप्तमनरकादिगमनाद्यनन्तभवदुःखदायकत्वादिति द्वितीयो भङ्गः २ । किञ्चित्पापं पुनरनल्पं बहुजन्तूपमर्दादिजत्वात्, अल्पदोषं चाल्पाविशुद्धिजन्मत्वात् । यथा श्रीकालिकसूरीणां सरस्वतीवालनार्थं तादृगारम्भादिपापम्, अल्पदोषत्वं च तस्येर्यापथिकी प्रतिक्रमणमात्रेण शोधितत्वात् इति तृतीयः ३ । कस्यचित् पुनः पापं बहुभूरितरजीववधादिभवत्वेन, बहुदोषं च यथा कालसौकरिकस्य ब्रह्मदत्तचत्रिप्रभृतीनां चेति ४ ।
इत्यवेत्य ननु पुण्यपापयो - भवतः फलविशेषमुच्चकैः ।
शुद्धमेव भज भावमाशु चेद्, ईहसेऽखिलविपज्जयश्रिये (यम् ) ॥ १ ॥
॥ इति तपाश्री०मुनिसुन्दरसूरिविरचिते श्रीउपदेशरत्नाकरे मध्याधिकारे प्रकीर्णकोपदेशनाम्नि तुर्येऽशे नवमस्तरङ्गः ॥
For Private & Personal Use Only
100000००६
उपदेशर० तरंग ९
॥ २२८ ॥
inelibrary.org