________________
TTH
hết tiền đi thi THPT TT TT
तदाकर्ण्य सर्वासां संयतीनां हृदयानि क्षुब्धानि यथा वयं वर्जयामः प्रासुकोदकमिति । तत्रैकया संयत्या चिन्तितम्यदि मम वपुः सम्प्रत्येव विनश्येत् कुष्ठादिभिस्तथाप्येतत् प्रासुकोदकं नाहं परिहरामि । किञ्च, न सत्यमिदं यदेतस्याः शरीरं प्रासुकोदकेन विनष्टम् । यतः पूर्वकृतकर्मोदयेन कुष्ठादीनि स्युस्तदहो! अज्ञानदोषोपहतया विगतलज्जयाऽनया महापापकर्मणा घोरदुःखदायकं कीदृशं दुष्टवचनमुक्तमित्यादि चिन्तयम्त्या विशुद्धिविशेषेण केवलज्ञानमुत्पेदे । देवैः केवलमहिमा विदधे । ततो धर्मदेशनानन्तरं रजया प्रणम्य केवली पृष्टः-भगवन् ! केन कर्मणाऽहं कुष्ठादिव्याधिभाजन जाता? । केवलिनोक्तम्-शृणु-त्वया रक्तपित्तदूषितया स्निग्धाहार आकण्ठं भुक्तः कोलिकमिश्रश्च सोऽभूत् । अपरं च, त्वया श्राद्धसुतस्य वदनं श्लेष्मलालालोलितं मोहवशात् सच्चित्तोदकेन प्रक्षालितं, तच्च न क्षान्तं शासनदेवतया; ततोऽपरेपामपि तत्प्रसङ्गनिवृत्तये तव तत्कर्मफलं दर्शितं कुष्ठाद्युत्पादनेन, तेन ते वपुर्विनष्टं, न तु प्रासुकोदकेनेति । ततोऽवि. तथमेतन्नान्यथेति विचिन्त्य तयोक्तम्-भगवन् ! यद्यहं यथोक्तं प्रायश्चित्तं चरामि तदा मम वपुः सज्जं भवेत् ? । केवल्युवाच-दुष्करकारिके ! प्रयच्छामि ते प्रायश्चित्तम् । नवरं प्रायश्चित्तमेव नास्ति येन ते शुद्धिर्भवेत् , यतस्त्वया संयतीवृन्दस्य पुरः 'प्रासुकोदकेन मे वपुर्विनष्टम्' इत्युक्तम् , एतच्च महापापपिण्डप्रायं त्वद्वचनं श्रुत्वा संक्षुब्धाः सर्वाः संयत्यः । एतद्वचनदोषेण च त्वया यदर्जितमत्यन्तकटुविपाकं पापं तत्त्वया कुष्ठ-भगन्दर-जलोदर-वायु-गुल्म-श्वासनिरोधा-ऽर्शो-गण्डमालाधनेकव्याधिवेदनापरिगतशरीरया दारिद्यदुःखदौर्गत्यायशोऽभ्याख्यानसन्तापोद्वेगप्रचालितयाऽनन्तैर्भवैरहर्निशमनुभवितव्यं सुदीर्घकालेन । इति दुर्वचनविपाके रजार्यासम्बन्धः। एतेषां द्वितीयभङ्गपातकानां बहु
Các em cho cô các cô
Jain Education
For Private & Personal Use Only
jainelibrary.org