________________
Jain Education
0000
000
कुम्पं भूमावास्फाल्य बभज्वान् । आः । किमेतदिति राज्ञोके स प्रत्युवाच - रसायनपरिमलबलादेव पलायिते व्याधौ व्याधेरभावाद् धातुक्षयकारिणा वृथा स्थापितेनानेनालम्, राजन् ! यदद्य शर्वरीविरामे सा पूर्वोक्ता कृष्णच्छाया प्रभोर्वपुरपास्य दूरं गतेति दद्दशे प्रभुणा । अत्रार्थे देवः प्रमाणम् । ततस्तदीयसत्यप्रत्ययेन परितोषितो दारिद्र्यद्रोहिपारितोषिकं तस्मै प्रसादीचकारेति । इत्येष द्वितीय औषधप्रकारः २ ।
किञ्चिदौषधं पुनरनाटोपम् अल्पमूल्यत्वादिना, बहुगुणं च यथाऽग्निमान्द्यादिमतो गुडनागरपथ्यौषधं, सद्योऽग्निप्राबल्यवपुःपुष्ट्यादिकरत्वात् ३ ।
अपरं पुनरौषधमनाटोपं प्रागुक्तहेतोः, अल्पगुणं च । यथाऽभिनवे ज्वरे गडूचीक्वाथादि, तत् खल्वल्पमूल्यत्वसुलभत्वादिनाऽनाटोपं, ज्वरस्याभिनवत्वेनौषधानर्हावस्थित्वात् स्वल्पमेव किञ्चिद् दाहतृषाद्युपशमरूपं गुणं च करोतीति चतुरौषधदृष्टान्तभावना ४ ।
अथ दान्तिकावसरः – सावज्जणवज्जत्ति, सावद्यानवद्यादिभेदैर्धर्मोऽपि तथैवेति पूर्वोक्तप्रकारेण साटोपानाटोपाल्पगुणबहुगुणस्वरूपेण चतुर्विधः । तत्र सहावद्येन षट्कायोपमर्दादिरूपेण वर्तते यः स सावद्यो द्रव्यस्तवरूपः, श्रीजिनप्रासादकारण- जीर्णोद्धारण - तीर्थयात्रा - देवपूजा - गुरुभक्ति-पदप्रतिष्ठा-सा धर्मिक वात्सल्यादिर्धर्मः । तद्विपरीतोऽनवद्यो भावस्तवात्मा सामायिक पौषधादिर्गृहिधर्मः । आदिशब्दात् सातिशयाचार्यादिगतः साधुमात्रगतश्च श्रमणधर्मोऽपि ग्राह्यः । तत्राद्यो राजपूज्यत्वादिभिः साटोपः, इतरस्त्वनाटोप इति । तथा मिथ्यात्वसम्यक्त्वानुगतत्वादिभेदा अप्यादिशब्दा
For Private & Personal Use Only
jainelibrary.org