SearchBrowseAboutContactDonate
Page Preview
Page 397
Loading...
Download File
Download File
Page Text
________________ 000000000000000000000 ॥ अथाष्टमस्तरङ्गः॥ जयसिरिसुहमिच्छंता, जीवा धम्म कुणन्ति बहवे वि । तं पुण पडुच्चभावा, तेसिं दीसन्ति वहवे वि ॥१॥ यतः-जवनाल १ इक्खुदंडा २, रस ३ गुड ४ खंडा य ५ सक्करा जच्चा ६। गविला जहा जहत्तरजिआणमिअ धम्मपरिणामा ॥२॥ 1 दण्डशब्दस्योभयत्र योगादू यवनालेक्षुदण्डौ, रसः प्रस्तावादिक्षुसम्बन्धी, गुडखण्डौ, प्रसिद्धौ शर्करा च जात्या चीनीति का प्रसिद्धा, एते यथायथोत्तरं गुल्यास्तथा जीवानां धर्मपरिणामा अपि यथोत्तरं मधुरा इत्युक्तिसम्बन्धः। ला अथैतद् भाव्यते-यथा यवनालदण्डोऽल्पतमरसः आपातमात्र एव भक्षयितुः किञ्चित् स्वदते, ततः परं तु कूर्चक एवेति, तथा केषाश्चिज्जीवानां जिनधर्म आपाते श्रवणप्रतिपत्त्यादिक्षणे किञ्चित् स्वदते, ततः परं कूर्चकतयैव प्रतिभाति । अत्र वणिग्द्वयज्ञातम्-एकस्मिन्नगरे नन्दकभद्रकनामानौ वणिक्सुतौ हट्टव्यवसायपरौ । नन्दकोऽन्यदा गुरुवचनाजातश्रद्धः प्रातर्जिनार्चनाभिग्रहमग्रहीत् । ततः-भद्रकः प्रातरुत्थाय, नित्यं याति निजापणे। नन्दको देवपूजाथै, सदा याति | जिनालये ॥१॥ भद्रकश्चिन्तयत्येवमहो धन्योऽत्र नन्दकः । त्यक्तान्यकृत्यो यः प्रात-जिनेन्द्र नित्यमर्चति ॥ २॥ अहं तु निर्धनः पापी, धनोपार्जनलालसः । अत्रागत्य मुखं प्रेक्षे, पामराणां दिनोदये ॥३॥ धिर धिग् मे जीवितं गोत्रमितिध्यानजलेन सः । मलं क्षालयति स्वीयं, पुण्यबीजं च सिञ्चति ॥४॥ चिन्तयन्नन्दकस्वेवं, मम देवार्चनक्षणे। Jain Education a l For Private Personal use only Ww.jainelibrary.org
SR No.600073
Book TitleUpdesh Ratnakara
Original Sutra AuthorMunisundarsuri
AuthorAmrutlal
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages486
LanguageSanskrit, Hindi
ClassificationManuscript
File Size24 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy