________________
Jain Education
900930
॥ अथ षष्ठस्तरङ्गः ॥ जयसिरिवंछिअसुहए, अणिट्ठहरणे तिवग्गसारंमि । इहपरलो गहिअत्थं, जिणधम्मे उज्जमह भविआ ! ॥ १ ॥ निम्मलबुद्धी विअ, सो पुण सुद्धो लहिज्जइ जिएहिं । सा पुण बुद्धी विविहा, तरतमजोगेण जीवाणं ॥ २ ॥
यतः - सजलय १ ऽजलयातारय २ - सतार ३ गह ४ हीण ५ पुण्ण ६ चंदनिसा । सजलया ७ जलयं ८ च दिणं, जिअमइधम्माण दिट्ठता ॥ ३ ॥
व्याख्या - जीवसम्बन्धिनोर्मतिधर्मयोरष्ट दृष्टान्ता भवन्तीति । तानेव क्रमादाह-सजलयेत्यादि, सजलदा जलदमालभारिणी १ । अजलयातारयत्ति - अजलदा चासौ अतारका च, जलदाभावेऽपि तच्छायादिना तारकादर्शनादजलदाताॐरका २ । सतारेत्यादि, सह तारैर्महींनेन पूर्णेन च चन्द्रेण वर्तते या सा सतारग्रहहीन पूर्णचन्द्रा ६, सा चासौ निशा चेति षड् दृष्टान्ताः । सजलद ७ मजलदं च दिन ८ मिति द्वौ चेत्यष्ट । तत्र जीवानां मतिमाश्रित्य भावना यथा - सजलदनिशावत् केषाश्चिद् घोरतमोमयी मतिः, पञ्चेन्द्रियादिजीववधकूटसाक्ष्याद्यसत्यचौर्य परस्त्रीलम्पटत्व पैशुन्य पर द्रोहतीर्था
1330
For Private & Personal Use Only
jainelibrary.org