________________
छछ
छ
छ
वादीः, पुण्यैरयमवसरो लभ्यते । गुरुभिरपि ज्ञापितम्-"जेण कुलं आयत्तं, तं पुरिसं आयरेण रक्खिज्जा । नहि तुंबंमि कविणटे, अरया साहारया हुन्ति ॥१॥ मन्त्रिणा गुरून् प्रति पुनरिदं काव्यं प्रहितम् “अद्य मे फलवती पितुराशा, मातु-1
राशिषि शिखाऽङ्कुरिताऽद्य । यद्युगादिजिनयात्रिकलोकं, प्रीणयाम्यहमशेषमखिन्नः॥१॥ भोजयित्वा परिधाय च रञ्जितः सङ्कः, इति वस्तुपालमन्त्रिणो विवेकभार्याया एकलेशसम्बन्धः, उत्तमकुलादित्रययोगस्तु तस्य सुप्रतीत एवेति । ला अथ 'निअरेत्ति' इतरे शुद्धदलादियोगविकला मोदका यथा न शुभाः तथेतराणि उत्तमकुलादियोगरहितानि मनुज-|
जन्मान्यपि श्लाघ्यानि न भवन्तीति उक्तिसंटङ्कः, तत्र सर्वथा दलाद्यभावे मोदकासिद्धेरशुद्धानि कानिचिद्दलानि ज्ञेयानि ।। तच्च दलं मुद्गचूर्णादि अशुद्धः स्नेहः तै(ति)लसर्षपतैलादि अशुद्धं गुल्यं गुडादि वेगरस्य पुनस्तादृशेष्वभाव एवेति। एवं मनुज-1 या जन्मस नीचं कुलं भिल्लम्लेच्छादिसम्बन्धि, अशुद्धं धनं परद्रोहाद्यनयार्जितं तैलादिसमम् , अशुद्धो धर्मः कुपात्रदानादिः,
यज्ञादिर्दवदानादिश्च कुधर्मो हिंसादिमयत्वेन दुर्गतिदुःखलक्षनिबन्धनत्वाद् विषतुल्य एव, न पुनर्गुल्यतुल्य इति । तथा-I ला विधनीचकुलादियोगे विवेकस्य पुनरभाव एवेति दृष्टान्तदान्तिकयोजना स्वयं कार्येति । अत्र दृष्टान्ताः सम्प्रति बहवोऽपि म्लेच्छादयो लक्ष्यन्ते। तथा नेतरे इति सामान्योत्तया एककादियोगविकला अपि ते लभ्यन्ते, तेऽपि तथा न सौन्दर्यभाजनं |
भवन्ति, तत्र च बहवो भङ्गाः सम्भवन्ति, तथाहि-दल-स्नेह-गुल्य-वेगरेत्येभिश्चतुर्भिः पदैः कुल-धन-धर्म-विवेकेत्येलाभिश्च चतुर्भिः पदैरेक-द्विक-त्रिक-चतुष्ककयोगा मिलिताः पञ्चदश चतुर्णाम भावश्चेति षोडश भङ्गाः प्रत्येकं स्युः । तेऽत्र
यथोक्तचतुष्पद एकः१, त्रिपदयोगाश्चत्वारः४,द्विपदयोगाः षट् ६, एककपदयोगाश्चत्वारः४, चतुरभावश्चैक इति। अथैतेषां|
இருவருருருருருருருருருர்
नीचं कुलं भिल्लम्म
यत्वेन दुर्गतिदुःखला
@@@@@@@@@@@@@
योजना स्वयं कार्येति
Jain Education
Monal
For Private & Personel Use Only
Kahaw.jainelibrary.org