SearchBrowseAboutContactDonate
Page Preview
Page 289
Loading...
Download File
Download File
Page Text
________________ मुनिसुन्दर सू० वि० उपदेशर० तरंग ३ Tết Tết Tết Tế இருருருருருருருருருருருருருருருருருருரு अत्राह कश्चित्-ननु मिथ्यात्वक्रियाधर्मफलस्य राज्यादेरनन्तरभवे दुर्गतिहेतुत्वेन दोषत्वं प्राक्प्रत्यपादि, इह तु सनिदानधर्मफलस्य राज्यादेस्तथैव दुर्गतिहेतुत्वेऽपि गुणत्वं तत्र को विशेषः ?, उच्यते-मिथ्याक्तपसां तथाविधविवेकरहितत्वेन प्रायः पापानुबन्धित्वात्तत्फलराज्यादेः स्वप्राप्तिमतां नृपादीनां धर्मवैमुख्यमहारम्भादिप्रवर्तकत्वेनैव केषाञ्चिद्धर्माभिमुखे च हिंसादिमययज्ञादिमिथ्यात्वक्रियैकरुचितत्प्रवर्तकत्वादिभिश्च दुर्लभबोधिताकरणेन दोषरूपत्वम् । सनिदानजिनमतीयतपःफलराज्यादि पुनः स्वप्राप्तिमतां नृपादीनां सर्वविरत्यादिविशेषधर्मानुपलम्भकत्वेऽपि जिनधर्मानुरागादेधर्मस्य यथार्ह प्रापकत्वेन भवान्तरे सुलभबोधिताकरणादू गुणत्वमिति विशेषज्ञैर्हेत्वन्तरं वा यथायुक्त्यत्र वाच्यमिति | तृतीयो धर्मप्रकारः । भावसुन्नोत्ति-भावश्चेतसि धर्मपरिणामः तेन शून्यो रहितः पुनर्धर्मो अणुभयंति-उभयं गुणदोपलक्षणं तस्याभावं रचयति, न गुणं नापि दोषं रचयतीत्यर्थः । यथा श्रीकृष्णेन सह वन्दनकर्तुर्वीरकस्य, तस्य ह्यष्टाद शसहस्रमुनिवराणां वन्दनककरणेऽपि भावशून्यत्वेन न किञ्चित्फलमभूत् । एवं दानाद्यशेषापरपुण्यकर्मस्वपि भावशून्य-| का स्वकरणे यथार्हमुदाहरणानि ज्ञेयानीति चतुर्थो धर्मप्रकारः।। औषधनिदर्शनादिति, चतुर्विधत्वं निबुध्य धर्मस्य । सुविशुद्धे जिनधर्मे, भवरिपुविजयश्रिये यत्यम् ॥१॥ इति तपागच्छेशश्रीमुनिसुन्दरसूरिविरचिते श्रीउपदेशरत्नाकरे प्राच्यतटे विधि शुद्धिनाम्नि चतुर्थेऽशे तृतीयस्तरङ्गः॥ Tết ॥१३१॥ Tết Jain Education in For Private & Personel Use Only Ajainelibrary.org
SR No.600073
Book TitleUpdesh Ratnakara
Original Sutra AuthorMunisundarsuri
AuthorAmrutlal
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages486
LanguageSanskrit, Hindi
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy