SearchBrowseAboutContactDonate
Page Preview
Page 288
Loading...
Download File
Download File
Page Text
________________ 000000 TECGOGSPOஒருருடு दृष्टान्तमुक्त्वा दार्टान्तिकमाह-तहा धम्मोत्ति, तथा तेनौषधप्रकारेण धर्मोऽपि यथाक्रम दोष १गुणं २ दोषगुणोभयं ३ दोषगुणोभथाभावं ४ च कुरुत इति संटङ्कः । स कस्क इति क्रमेणाह-मिच्छत्तंति मिथ्यात्वं देवगुरुधर्मादितत्त्वेषु विपर्यस्ता मतिः, तदूगोचराः कुतीर्थिकल्पितास्तास्ताः स्नानयज्ञादिक्रियाश्च, तत्स्वरूपं च प्राग बहुशः प्रथितमिति नेह | प्रथ्यते । तदेव मिथ्यादृग्जनेषु धर्मेतिरूढेधर्मः स केवलं दोषं चतुर्गतिदुरन्तदुःखलक्षनिबन्धनत्वात् कुरुते, यज्ञकर्तृतुरमणिपुरीशदत्तनृपादीनामिव । केषाञ्चित्तापसचरकादीनां स्वस्वा(गमा)नुसारेणाल्पसावधपराणां मासक्षपणादिकष्टतपःकृतां यद्यपि किञ्चिद्राज्यादिशुभफलप्राप्तिः श्रूयते, तथाप्यनन्तरभवे प्रायो नियमान्नरकादिदुर्गतिदुःखानि प्रामुवतां तेषां सा श्वयथुपीनत्वस्यैव तुल्येति न दोषत्वं व्यभिचरतीति । तथा अनिआणोत्ति-निदानं प्रेत्य तपःफलप्रार्थनं तेन रहितोडनिदान उपलक्षणादैहिकार्थप्रार्थनादिरहितश्च । तथा चागमः-नो इह लोगट्टयाए तवमहिहिजेत्यादि । अत एव शुद्धो यो धर्मः मिथ्यात्वस्य प्रागुतस्तद्व्यतिरिक्तःश्रीसम्यक्त्वज्ञानचारित्रलक्षणः सर्वज्ञप्रणीतः स गुणं कर्मक्षयलक्षणं कुरुते,यत्तत उत्कर्षात्तत्रापि भवे महोदयानन्तसुखावाप्तिः वाञ्छितफल-धन-सुख-संयोग-राज्यादिसांसारिकशुभफलप्राप्तिः पुनः प्रसङ्गतः सृजति जन्तूनां, श्रीश्रेयांस-चन्दनबाला-सङ्गमकादीनां दानादिपुण्यान्यत्रोदाहरणीकार्याणीति द्वितीयो धर्मप्र| कारः। सनिआणोत्ति-निदानं तपःफलप्रार्थनं तेन सहितः सनिदानोऽधिकारात् सर्वज्ञप्रणीत एव धर्मः, स च दोषं गुणं चेत्युभयं करोति । स्वाराधकस्यानन्तरभवे प्रार्थितराज्यादिशुभफलार्पकत्वेन तत्र प्राग्भवे कृतनिदानत्वेन धर्माप्राप्त्याऽनन्तर| भवे नरकादिदुर्गतिप्रदत्वेन च, यथा ब्रह्मदत्तजीवसम्भूतादीनां, सम्भूतभ्रातृचित्रऋष्यादयश्च निर्निदानधर्मे दृष्टान्ता ज्ञेयाः। ROO Jain Education Inter For Private & Personel Use Only प ainelibrary.org
SR No.600073
Book TitleUpdesh Ratnakara
Original Sutra AuthorMunisundarsuri
AuthorAmrutlal
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages486
LanguageSanskrit, Hindi
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy