SearchBrowseAboutContactDonate
Page Preview
Page 286
Loading...
Download File
Download File
Page Text
________________ DOAS SECRECOCTOOOOOO लसुखफलार्थिभिहसोपमैर्विवेकिवरैः स त्याज्य एव । चतुर्भङ्गगत एव च निर्मलो धर्म आदरणीयः । प्रमादादित्यागाक्षमैः पुनः शुद्धधर्मावाप्तावुद्यमपरैः शुद्धधर्मानुरागिभिः प्रमादाविध्यादिकलुषोऽपि धर्मो न त्याज्यः । तादृशादपि तस्मात्क्रमेण शुद्धधर्मस्यापि प्राप्तिसम्भवात् । दृश्यते खल्वशुद्धादप्यभ्यासान्निर्मलक्रियाकौशलोत्पत्तिर्यथा नाट्यादिषु । तथा चागमेऽपिअविहिकया वरमकयं, असूयवयणं वयंति समयन्नू । पायच्छित्तं जम्हा, अकए गरुअं कए लहुअं॥१॥ दृष्टान्ताश्चात्र प्रमादकलुषसामायिकधर्मकर्तृविसढश्राद्धादयो ज्ञेयाः । इति तृतीयधर्मभेदभावना ३।। | अथ यथा मानससरोजलं सदा निर्मलं राजहंसानां च सदा सेव्यं तापतृष्णोच्छेदि शुद्धिकृच्च, तथा मिथ्यात्वादिभिरकलुषितो निर्मलो धर्मः सकलापत्तापविषयादितृष्णोच्छेदी निखिलदुरितमलापहर्तृत्वेनात्मनः शुद्धिकारणं विवेकिभिः सदा सेव्यश्च, श्रीआनन्दकामदेवादिश्रावकैरिव श्रीवर्धमानस्वामिवचसा परुषभाषणपातकालोचिमहाशतकश्राद्धेनेव वा। सं च सेवितस्तद्भवे द्वित्रादिभवमध्ये वा परमानन्दसम्पदमपि दत्ते, स्वभागिनेयर्षीणां द्वितीयवारं वन्दनककर्तृश्रीशीतलाचार्येर्यापथिकीप्रतिक्रामकातिमुक्तर्षिएकदिनचारित्राराधकश्रीपुण्डरीकराजर्षिप्रभृतयोऽन्येऽपि यथार्ह निष्कलङ्कधर्मकरणे दृष्टान्ता योज्या इति । अनेकभेदं परिखोदकादि-निदर्शनैरित्यवबुध्य धर्मम् । बनीत बुद्धिं विबुधा ! विशुद्धे, तस्मिन्विमोहारिजयश्रिये स्वाम् ॥ १॥ ॥ इति तपागच्छेशश्रीमुनिसुन्दरसूरिविरचिते श्रीउपदेशरत्नाकरे जयश्यके प्राच्यतटे चतुर्थेऽशे द्वितीयस्तरङ्गः ॥ Jain Education For Private & Personel Use Only www.jainelibrary.org @ O
SR No.600073
Book TitleUpdesh Ratnakara
Original Sutra AuthorMunisundarsuri
AuthorAmrutlal
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages486
LanguageSanskrit, Hindi
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy