________________
वचः - पुराणं मानवो धर्मः, साङ्गो वेदश्चिकित्सितम् । आज्ञासिद्धानि चत्वारि, न हन्तव्यानि हेतुभिः ॥ १ ॥ हिंसादिकलुषत्वेन स्वाराधकानां प्रत्युत दुर्गतिपातहेतुत्वाच्च "खड्ड खणाविअ पई छगला, पइं आरोविअ रुक्ख पईं जिय वत्तिअ जन्न बहु, कां बुबुइ मुरुक्खु" ॥ १ ॥ इति गाथाश्रवणाद्दुद्धच्छगलीभूतद्विजादीनां प्राग्भवधर्म इवेति १ ।
यथा च द्राक्षातरुर्लघुर्मण्डपाद्यारूढत्वेऽपि शिशूनामपि सुखग्राह्यत्वात् सारश्च तत्फलानां मधुरत्वपित्तादिविकारा| पहारित्वादिहेतुभिः, तथा सम्यक्क्रिया षडावश्यकविधिप्रतिलेखनाप्रमार्जनाजिनमुनिनमन जिनवचनश्रवणतद्गुणानुमोदनाॐ दिरूपा तद्रूपो धर्मः शरीरधनादिसामर्थ्य रहितानामपि सुखग्राह्यत्वाद् बहिर्मुखजनेषु तथा महिमाद्यहेतुत्वाच्च लघुस्तत्रव ॐ भवे भवान्तरे वा विस्मयावहलक्ष्मी साम्राज्यादिमोक्षावधिमहाफलप्रदायित्वात् सारश्च । तथा चागमः - जोगे जोगे जिणसासणंमि दुक्खक्खयं परंजंता । इक्किक्कमि अणंता, वट्टता केवली जाया ॥ १ ॥ दृष्टान्ताश्चात्रातिमुक्त कर्पेर्दकमृत्तिकाविराधनां कृतवत ईर्यापथिकीप्रतिक्रमणं, कैसरिचौरस्य सामायिकपरिणामः, श्रीसम्प्रतिनृपप्राग्भवद्रमकसाधोरव्य
सामायिक, श्रीकृष्ण महानृपस्याष्टादशसहस्रसाधुकृतिकर्म्मप्रदानं, श्रीशीतलाचार्यस्य वा भागिनेयकेवलिनां भावतः कृतिकर्मकरणं, मृगावत्या मिथ्यादुष्कृतप्रदानं, प्रसन्नचन्द्रराजर्षेः पश्चात्तापकरणं, प्रसन्नचन्द्रनृपभ्रातुर्वल्कलचीरिणः पात्रकप्रतिलेखना, मूलदेवस्य कुल्माषप्रदानं, दुर्गतनार्याः श्रीसिन्दुवारपुष्पैः श्रीवीरार्चापरिणामः, नन्दमणिकारददुरस्य जिनवन्दनमनोरथो, धरणेन्द्रप्राग्भवभुजङ्गस्य पञ्चपरमेष्ठिमन्त्रश्रवणं, राजसिंहप्राग्भवपुलिन्द्र मिथुनस्य पञ्चपरमेष्ठिमन्त्रस्मरणादि च २ ।
Jain Educationonal
For Private & Personal Use Only
www.jainelibrary.org