________________
च १३ । कदाचित्कर्मवशादनाभोगादिना सञ्जातप्रमादस्खलितमान्द्या गीतार्थगुर्वादिभिर्विधिवत् स्मारणादिभिः श्रीगौत-13 मेन महाशतकश्राद्धवत्पाल्यन्ते शुद्धधर्मे सज्जीक्रियन्त इत्यर्थः १४ । सम्यग्विधिना त्यक्तदेहाश्च द्वादश कल्पान् यावत् सुखसम्पत्पदवी प्रामुवन्ति, क्रमादल्पैर्भवैर्महोदयसुखानि च १५ । एवं सुखार्थिनः सम्यक्तदुपायप्रवृत्त्या सुखिन एव या भवन्तीति तृतीयो गृहिभेदो नवमश्च नरप्रकारः ९। | इति बिडालशुककरिदृष्टान्तत्रयेण विविधा गृहिणो व्याख्याताः। अथ द्विधा मुनयः-स्थविरकल्पिका जिनकल्पिकाश्च। का तत्र यथा हरयः सिंहा दुर्धर्षमहावलशालिप्रकृतयो १, जीर्णतृणादिपरिहारेण बलपुष्टिकृन्महामांसान्येवाहरन्तः २, स्वग
न्धक्ष्वेडामात्रेण मृगादीन् क्षुद्रजन्तूंस्त्रासयन्तो महागजादीनपि लक्षयन्तः ३, कैरपि यथा तथा पाशेषु पातयितुमशक्याः |४, महाभटादीनामपि वशतामयान्तः ५, शूरै रणाद्यर्थमाहूताश्च घोरक्ष्वेडानि?षैः पुच्छाच्छोटविकटदंष्ट्राक्रकचैस्तीक्ष्णनखरायुधश्च परान् शूरानपि भापयमानाः सद्यः समुत्थिता एव त्रासयन्तोऽत्रस्तांश्च विदारयन्तो ६, निजावासस्थानं गिरिवनगुहादिकभङ्क(कं तद्भङ्ग)गजशूकरच्छेत्तृपुरुषादिभ्यो रक्षन्ति ७,तद्बलेन चात्मानं सुखयन्तो बनान्तरानीतैकैकादिपशुप्रदान-1 सेवाशरणमार्गणादिभिः प्रसादिताः स्ववनवासिनः पशून् सर्वोपद्रवेभ्यो यथाई रक्षन्तस्तैः परिवृताश्च सर्वश्वापदेष्वाधिप-15 त्यमनुभवन्तस्तैः श्लाध्यमानाश्च भ्राजन्ते, तथा स्थविरकल्पिका विशुद्धाचारा महामुनयः तपस्तेजोविराजिता गुर्वादि-10 पदप्रतिष्ठिताश्च स्वपरमतागमतौदितत्त्ववेदितया सर्वमिथ्यादृशां पराभवक्षमतया दुर्धर्षवादादिवलशालिप्रवृद्धप्रभावाः १, तृणवदशुद्धाहारादिपरिहारेण धर्मवपुःपुष्टिकृत्शुद्धपिण्डशय्यावस्त्रपात्रादिपरिभोगिणो २, मृगादीनिव मिथ्याविषय-1
00000000000000000
Jan Education
a
l
For Private Personel Use Only
A
njainelibrary.org