________________
उ. १
Jain Education In
90000000000
श्रेष्ठि- देवचन्द्रलालभाई - जैनपुस्तकोद्धार - प्रन्था श्रीमन्मुनिसुन्दरसूरिविरचिते
उपदेशरत्नाकरः ।
श्रीसर्वज्ञाय नमः श्रीगुरुभ्यो नमः ।
जयश्रीप्राप्तितो मोह - रिपोरमलकेवलः । यो जगत्कृपया धर्म- मूचे तं श्रीजिनं स्तुवे ॥ १ ॥ नाथः प्रजानां पुरुषार्थदेशनादनिष्टहर्तेष्टकरश्च योऽभवत् । तमादिमं भूमिभृतां तथार्हतां, जगद्गुरुं श्रीऋषभप्रभुं स्तुमः ॥ २ ॥ अशेषतः शान्तिमुपद्रवाणां जगत्सु कुर्वत्कृतवत्करिष्यत् । यस्याभिधानं दधतेऽन्वयित्वं स शान्तिनेताऽभिमतार्थसिद्धये ॥ ३ ॥ यः श्यामवर्णोऽपि वशीकरोति, ध्यातः सतामीप्सितशर्मलक्ष्मीः । जयाय बाह्यान्तरवैरिनेमिर्नेमित्रिलोकः स जिनेन्द्रनेमिः ॥ ४ ॥
For Private & Personal Use Only
1000
jainelibrary.org