________________
Def
उपदेशर.
मुनिसुन्दर सु०वि०
॥१०१॥
நருதிருடு
भ्यासाद्वा समागतं शुक्लध्यानमिथुरसमिव पिबति । तेन च तपोऽनुष्ठानादिप्रयासं विनापि सञ्जातघातिकर्मपित्तक्षयः केवलज्ञानं प्राप्नोति सर्वकर्मक्षयात् सिध्यत्यपि । दृष्टान्ताश्च मरूदेवावसुदेवभार्याकनकवतीभरतचक्रिकूर्मापुत्रेलापुत्रनागकेतुपृथ्वीचन्द्रश्रीआदित्ययशःप्रमुखनरेन्द्राष्टकगुणसागरतत्पत्नीप्रभृतयो ज्ञेयाः । इति बालादिभावनया चतुर्थः पुण्यभेदः । एवं मिथ्यात्वमारम्भादिपापं वा जिनधर्मश्च सम्यक्त्वरूपो विरतिरूपो वा चतुर्धाकरणादुभयमेलने चाष्टधा चतुर्विधमष्टविधं च फलं जनयति ।
एवं चतुर्दा परिभाव्य पुण्य-पापे तदग्र्याग्रभिदां प्रयत्नात् । गृहीतिदानेषु बुधा यतध्वं, लभध्वमज्ञानजयश्रियं च ॥१॥ इति महामुनिसुन्दरवाक्सुधां, सदुपदेशमयी निपिबन्ति ये।
भवगदुःखजतापमपास्य ते, दधति नित्यमनन्तसुखाद्वयम् ॥ २ ॥ ॥ इति तपागच्छाधिपश्रीमुनिसुन्दरसूरिविरचिते श्रीउपदेशरत्नाकरे प्राच्यतटे तृतीयेऽशे युगपत्पुण्यपापस्वला रूपवर्णननामा प्रथमस्तरङ्गः ॥
१०१॥
ॐ
Jain Education in
For Private & Personel Use Only
jainelibrary.org
இ