________________
मुनिसुन्दर प्रकाशयति तत्रस्थं जनं क्रियाकाण्डे प्रवर्तयति च न तु बहिः स्थितं, तथा केचिन्मुनयः स्फुटतरज्ञानादिगुणप्रभाः स्वर- उपदेशर० सू०वि०मध्य एव स्वं तत्त्वावबोधप्रकाशभासुरं प्रकटयन्ति परेभ्यो धर्माधर्माद्यर्थप्रकाशं च कुर्वन्ति धर्म कर्मसु प्रवृत्तिं च, न तरंग १६
तु परवर्गादौ, तथाविधगृहभित्त्यादिसमज्ञानावरणादिहेतुकप्रागल्भ्याययोगादिति स्वपरयोरल्पप्रकाशाः ४ । गिरिप्रदीपोका गिरेः शिखरे ताहक्प्रौढदीपवर्तिप्रभृतियोगेन निर्मितो दीपः पुनयेथा पूर्वस्मादधिकतरप्रभो बहुयोजनान्यपि यावत प्रकाशयति परेभ्यो बर्थप्रकाशं च करोति, तथा केऽपि गुरवो विशिष्टज्ञानक्रियादिगुणप्रभाभिः स्वगणे परगणाटिपचार प्रसिद्धिं विभ्रति, स्वशिष्येभ्यः प्रतीच्छकेभ्यश्चागमार्थप्रकाशका, बहूनां भव्यानां धर्ममार्गप्रकाशनेन धर्मक्रियाप्रवृत्तिहे-16 तवश्चेति स्वपरबहुप्रकाशा इति ५ । ग्रहाः शुक्रादयस्ते यथा विशिष्य प्रकाशात्मतया सचराचरे जगति ज्ञायन्ते, परमर्थमशेष ध्यामलं प्रकाशयन्ति ततश्च तत्तत्क्रियाप्रवर्तका अपि तथा न स्युः, तथा केऽपि गुरवो निर्मलक्रियादिगुणप्रभाभिः सचराचरे जगति ख्यातिभृतः परं बह्वागमसन्देहध्वान्ता अस्पष्टागमार्थपरिज्ञानप्रकाशाश्च । तत एव परेषां न तथा धर्मकर्मप्रवर्तकाः पूर्वेभ्यः पुनरधिकगुणप्रकाशाः ६ । केचिद्गुरवः पुनश्चन्द्रवत् स्वपरपज्ञेषु शीतलाप्यायकप्रकृतयो गोविलासजगतोऽपि मिथ्यात्वकषायादितापापहारिणो दिङमण्डलप्रसृत्वरनिर्मलकीर्तिकौमुदीभरा विबुधेभ्योऽधिकममृतदानचणाः |स्वल्पसंशयतमसः स्फुटतरागमार्थप्रदर्शिनश्च दुष्पमानिशायां धर्मोद्योतकारिणो ग्रहसमापरसूरिष्वधिकतरं दीप्यन्ते । तत एव बहुभव्यजनं यथोचितधर्मक्रियासु प्रवर्त्तयन्ति चेति बहुतरप्रकाशाः ७। सहस्रकरवञ्च केऽपि गुरवो निर्मलतमसकलागमार्थपरिज्ञानप्रकाशा दूरनिरस्ताशेषसंशयध्वान्ता मिथ्यादृष्टिमहोलूकदर्शनानि प्रमीलयन्तः प्रबलप्रवादिग्रह
ஓஓஓருருருருருருருருரு.GOOG
000000000
Jain Education
a
l
For Private Personal Use Only
w
.jainelibrary.org