________________
Jain Education
666696
॥ अथ षोडशस्तरङ्गः ॥ पुनर्भङ्गयन्तरेण श्रीगुरुयोग्यत्वादि प्ररूपयतिकीडय १ खज्जोआ २ घड ३ गिह ४ गिरि ५ दीवयगहिं ६ दु ७ सूरा ८ भा । सपरप्पबहुपयासा, नाणाइहिँ अइहा गुरुणो ॥ १॥
व्याख्या - ज्ञानादिभिर्ज्ञानमहिमक्रियादिगुणप्रभाभिः स्वस्य परेषां चाल्पो बहुश्च प्रकाशो येभ्यस्ते स्वपराल्पबहुप्र - काशाः कलौ कीटादिसदृशा अष्टधा गुरवो भवन्तीति संटङ्कः । तत्र कीटकः सामान्योक्तावपि भृङ्गारिकेति प्रसिद्धञ्चाकचिक्यवदेहावयवो गृह्यते । स यथा कीटत्वाविशेषेऽपि कीटकान्तरेभ्यश्चाकचिक्य भृत्तयैवाधिकः, न तु तमसि स्वदेह| स्यापि प्रकाशकः; तथा केचिज्ज्ञानादिविशेषप्रभोज्झिता अपि स्वपरिवारे आसनाद्याडम्बरमात्राभिज्ञा नतु स्वस्यापि तत्त्वाववोधप्रकाशं कुर्वते १ । यथा खद्योताः स्वदेहमात्रप्रकाशकरुचोऽल्पगगनगमन क्रियास्तमस्स्वेव द्योतन्ते, तथा केचि - २ दल्पज्ञानादिभृत्तया स्वकीयपरिवारमात्रलब्धप्रसिद्धयोऽल्पसंयमक्रिया अज्ञानतिमिराप्लुतदृष्टिषु मुग्धेष्वेव दीप्यन्ते; ॐ स्वस्यापि तत्त्वावबोधप्रकाशमल्पमेव कुर्वते; परेषां तु तत्त्वावबोधप्रकाशं कर्तुं न प्रभविष्णव इति २ । यथा घटप्रदीपो © बहुनिर्मलप्रभाभरः परं घटान्तरेव प्रकाशयति, तथा केचिन्निर्मलज्ञानादिगुणप्रभाभृतोऽपि स्वहृदयमेवोद्योतयन्ते न तु | परेषामर्थप्रकाशका व्याख्यादिलब्धिवैकल्येनेति ३ । यथा गृहदीपः स्फुटतरप्रभः स्वं गृहमध्ये स्थितं पदार्थराशिं च
600990639000006
For Private & Personal Use Only
de ww.jainelibrary.org