________________
मुनिसुन्दर सू० वि०
॥ ९० ॥
Jain Educatio
90966€
369001
॥ अथ चतुर्दशस्तरङ्गः ॥
॥ निदर्शनान्तरेण पुनर्योग्यायोग्यत्वमाह
फल १ जल २ छाया ३ हिं जुआ ४, इगंदुतिजोगेहि जह वणा अट्ठ ॥
अविहा तह गुरुणो, चरित्तनाणोवएसेहिं ॥ १ ॥
व्याख्या - फलजलच्छायाभिर्यथा वनानि एककद्विकत्रिकयोगैस्त्रयाभावेन चाष्टधा भवन्ति । यतस्त्रयाणां पदानामेककयोगास्त्रयः द्विकयोगास्त्रयः त्रिकयोगश्चैकस्त्रयाणामभावश्चाष्टम इति । तथा चारित्रज्ञानोपदेशैः कृत्वैककद्विक त्रिकयोगैस्त्रयाभावेन चाष्टधा गुरवो भवन्तीति पिण्डार्थः । भावना त्वेवम्-यथा कानिचिद्वनानि केवलं फलयुतानि छायासलिलाभ्यां तु रहितानि यथा फलितं कूष्माण्डीत्रपुष्यादिवल्लीवनं जलाश्रयरहितं तथा केचित् केवलं चारित्रभृतो नतु ज्ञानोपदेशाभ्यां कलिता, माषतुषर्षियवराजर्थ्यादिवत् ते च प्रायः स्वतारका एवेति १ । यथा च कान्यपि वनानि केवलजल कलितानि फलच्छायाभ्यां पुनर्विकलानि, सरोवरादिजलाश्रयान्वितशाल्मल्यादिवनवत्, जलाश्रितबिभीतकादिवनवच्च । बिभीतकच्छायायाः कलहोत्पादकत्वेनानासेव्यत्वान्न च्छायात्वमिति । तथा केचित् केवलं सम्यगागमपरिज्ञानभृतः प्रमादग्रस्तत्वादिना त्यक्तक्रियोपदेशाश्च मथुरामाचार्यवत्, रसादिगौरवनिद्रादिप्रमादपतिताव| स्थश्रीशेलकाचार्यवच्च । ते च स्वं परं च तारयितुं न प्रभवः । तदुक्तम् – जहा खरो चंदणभारवाही, भारस्स भागी न हु
For Private & Personal Use Only
उपदेशर ० तरंग १४
॥ ९० ॥
ww.jainelibrary.org