SearchBrowseAboutContactDonate
Page Preview
Page 178
Loading...
Download File
Download File
Page Text
________________ 3000-000000000000000 ॥ अथ नवमस्तरङ्गः॥ अथ गुरुदेशनागतं योग्यायोग्यत्वमाह खारम्माइ अ पुक्खलसंवदंता जहा बहू मेहा । इअ धम्मवीअहरणा, करणा य गुरूणमुवएसा ॥१॥ व्याख्या-यथा क्षाराम्लादयः पुष्करसंवर्तादयश्च मेघा बीजाहरणा बीजकरणाश्च स्युस्तत्र क्षारमेघाऽम्लमेघाग्निमेघविपमेघाशनिमेघा युगान्तसमयप्रवर्षिणो यथोत्तरं सकलबीजपोषाय प्रवर्तन्ते पुष्करावर्तमेघक्षीरमेघघृतमेघामृतमेघरसमेघाः पुनः कल्पस्यादौ सकलबीजाद्युप्तये यथोत्तरं भवन्ति । तदुक्तम्--तदा च विरसा मेघाः, क्षीरमेघालमेघकाः। विषाग्यशनि| मघाश्च, वर्षिष्यन्त्यात्मसन्निभम् ॥ १॥ येन भावी कासः श्वासः, शूलं कुष्ठं जलोदरम् । ज्वरः शिरोऽर्तिरन्येऽपि, मनुप्याणां महामयाः ॥ २॥ दुःख स्थास्यन्ति तिर्यञ्चो, जलस्थलखचारिणः । भावी क्षेत्रवनाराम-लतातरुतृणक्षयः | ॥३॥ अपि च-तत्राद्यः पुष्करो मेघो, महीं निर्वापयिष्यति १। द्वितीयः क्षीरमेघाख्यो, धान्यान्युत्पादयिष्यति २॥१॥ तृतीयो घृतमेघाख्यः, स्नेहं सञ्जनयिष्यति ३ । तुर्यस्त्वमृतमेघाख्य, औषध्यादि करिष्यति ४॥२॥ पृथ्व्यादीनां रसकर्ता, रसमेघश्च पञ्चमः ५ । पञ्चत्रिंशदिना वृष्टि विनी सौम्य ! दुर्दिना ॥३॥ इअत्ति-इतिः प्रकारे, एवंप्रकारेण गुरूणामुपदेशा अपि केषाश्चिदवसरौचित्याद्यनभिज्ञानां पात्रापात्राद्यपरीक्ष्य रागद्वेषादिना वा प्रयुक्ता धर्मबीजस्य हरणाः JainEducation For Private Personal Use Only R ainelibrary.org
SR No.600073
Book TitleUpdesh Ratnakara
Original Sutra AuthorMunisundarsuri
AuthorAmrutlal
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1914
Total Pages486
LanguageSanskrit, Hindi
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy