SearchBrowseAboutContactDonate
Page Preview
Page 398
Loading...
Download File
Download File
Page Text
________________ उपमितौ अ.८-अ. ॥७५४॥ CACANCCORRUCACACADS साध्वी, किंचिच्छोकेन पीडिता ॥ ६७१ ॥ ततः शोकापनोदार्थ, तस्यास्ते वरसूरयः । सर्वेषामेव पुरतस्तेषामित्थं प्रभाषिता ॥ ६७२ ॥ शोकनि| "आयें! न शोचनीयोऽसौ, महात्मा नरसत्तमः । येनैकदिनमात्रेण, साधितं सत्प्रयोजनम् ॥ ६७३ ॥ यथा पापभरं कृत्वा, प्रवृत्तो न- वारणं "रकं प्रति । यदि गच्छेत्तथैवात्र, ततः शोच्यो भवोदधौ ॥ ६७४ ॥ यः पुनः प्राप्य सद्धर्म, निर्धूय निजकल्मषम् । सर्वार्थसिद्धिं सं-| |"प्राप्तो, नासौ शोकस्य गोचरः ॥६७५।। शोचनीयः सतामिष्टो, नरः संयमदुर्बलः। स हि सर्वत्र संसारे, भ्रमेढुःखभरेरितः॥६७६॥ "न शोचनीयः स्निग्धेन, मृतः संयमवान् नरः । स हि संसारचक्रेऽपि, तिष्ठेदानन्दपूरितः ॥ ६७७ ॥ स एव च बिभेत्युच्चैमरणे स"मुपस्थिते । येन नाचरितो धर्मः, परलोकसुखावहः ६७८ ॥ सद्धर्मपथ्यपाथेयं, यस्त्वादाय प्रतीक्षते । मरणं तस्य तत्प्राप्तौ, न "भीः किं तु महोत्सवः ।। ६७९ ॥ ज्ञानदर्शनचारित्रतपोरूपाऽधनाशिनी । आराधना चतुःस्कन्धा, यस्य स्यात्तस्य किं "मृतम् ॥ ६८० ।। आनन्दोत्पादकास्तेऽत्र, भगवन्तो मुनीश्वराः । ये क्षालयित्वा पापौघ, मृताः पण्डितमृत्युना ॥ ६८१ ॥” इत्यायेऽनार्यकार्येभ्यो, निवृत्तो योऽनुसुन्दरः। मृतः स शोचनीयस्ते, कथं सिद्धप्रयोजनः ॥ ६८२ ॥ किं च-स्थितिक्षयात्ततश्युत्वा, पु-| भावी अ. करार्धस्य भारते । अयोध्यायां स गान्धारराजसूनुर्भविष्यति ॥ ६८३ ॥ नाना चामृतसारोऽसौ, पद्मिनीचित्तनन्दनः । भविष्यति | मृतसारलसद्भतिर्देववद्दिवि लालितः ।। ६८४ ॥ क्रमेण यौवनं प्राप्तः, कलाकौशलकोविदः । विपुलाशयनामानमाचार्य प्राप्य सुन्दरम् ॥ ६८५॥ संभाल्य पितरौ युक्त्या, स दीक्षां पारमेश्वरीम् । प्रहीष्यति विशुद्धात्मा, चरिष्यति चिरं तपः ॥ ६८६ ॥ ततो निघूय निःशेष, कर्मजालं| समाधिना । भवप्रपञ्च निर्मुच्य, यास्यत्येव शिवालये ॥ ६८७ ।। एवं च स्थिते-सर्वथा स प्रमोदस्य, कारणं भव्यदेहिनाम् । आर्ये!॥७५४॥ न शोकसन्तापकारणं स नरोत्तमः ॥६८८।। अत्रान्तरे प्रणम्याह, पौण्डरीकमहामुनिः । इदं निवेदितं नाथैवृत्तं भावि महात्मनः ॥६८९॥ CACANCAM Jain Education For Private & Personal Use Only jainelibrary.org
SR No.600072
Book TitleUpmitibhava Prapancha Katha Uttararddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages422
LanguageSanskrit
ClassificationManuscript
File Size20 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy