SearchBrowseAboutContactDonate
Page Preview
Page 345
Loading...
Download File
Download File
Page Text
________________ पञ्चमानुपः स्वतः उपमितौ बद्दिवि । सार्ध मदनमजर्या, स्थितः संवाससद्मनि ॥ १३२ ॥ तत्रावगाहितो दिव्यः, सुरतामृतसागरः । केवलं लौल्यमुक्तत्वान्नासन्जि अ.८-प्र. मानितरां मया ॥ १३३ ॥ लब्धनिद्रासुखोऽत्यन्तं, प्रबुद्धः सह कान्तया । कृतं प्रभातकर्तव्यं, ताताम्बावन्दनादिकम् ॥ १३४ ॥ अथा Mयातः प्रभातेऽसौ, मत्समीपं कुलंधरः । स मां प्रत्याह दृष्टोऽद्य, मया स्वप्नः स कीदृशः ? ॥ १३५ ॥ मानुषाणि मया पञ्च, भो ह॥७०१॥ काष्टानि परिस्फुटम् । त्रयः पुमांसो द्वे नायौँ, तैश्चेदं तव भाषितम् ॥ १३६ ॥ यदुत-य एष सुखसन्दोहसागरो गुणधारणे । संजातोऽयं कृतोऽस्माभिः, स सर्वो नात्र संशयः ॥ १३७ ॥ तथाऽन्यदपि यत्किचिदस्य पूर्व परत्र च । संपद्येत तदस्माभिस्तत्रितं भो कुलन्धर! ॥ १३८ ॥ एवं तानि बुवाणानि, मानुपाणि ममाग्रतः । गतान्यदर्शनं बुद्धस्ततोऽहं गुणधारण! ।। १३९ ।। न जाने कानि तान्यत्र, | मानुषाणि विशेषतः । तत्रयन्ति सदा यानि, कार्याणि तव भावतः ॥ १४० ॥ मयोक्तं कथ्यतामेष, तातादिभ्यस्त्वयाऽधुना । स्वप्नो विज्ञायते येन, भावार्थोऽस्य परिस्फुटः ॥ १४१ ॥ ततो निवेदितस्तेन, विद्वत्सङ्घातपूरिते । ताताऽऽस्थाने निजस्वप्नो, मद्वयस्येन धीमता C॥ १४२ ॥ ततस्तातादिभिः सवरेकवाक्यतया तदा । निजबुद्ध्या विनिश्चित्य, स्वप्नार्थोऽयं प्रभाषितः ।। १४३ ॥-अनुकूलानि वर्तन्ते, देवरूपाणि कानिचित् । यैरीदृशी कुमारस्य, कृता कल्याणमालिका ॥ १४४ ॥ तैरेव प्रियमित्राय, कुमारस्य निवेदितम् । तोषात्स्वप्नान्तरे सर्व, यथाऽस्माभिरिदं कृतम् ॥ १४५ ॥ एतच्चाकर्ण्य मे चित्ते, पूर्वापरविरोधतः । स्मृत्वा कामलतावाक्यं, सन्देहः समजायत ॥ १४६ ॥ यतो मया चिन्तितं-कनकोदरराजेन, किं चत्वारि पुरा तथा । किं वा कुलंधरेणाद्य, पञ्च दृष्टानि तानि वै ? ॥ १४७॥ कानि वा देवरूपाणि, ममैवं कार्यचिन्तनम् । अनुकूलानि कुर्वन्ति, किं वोरीकृत्य कारणम् ? ॥ १४८ ॥ सर्वथा सर्वमेवेदं, गहनं प्रतिभासते । ममाद्यापि न जानेऽहं, किमत्र बत कारणम् ? ॥ १४९ ॥ एवं च स्थिते-यद्यतीन्द्रियवेत्तारं, कंचित्पश्यामि सन्मुनिम् । ॥७० Jan Education Intem For Private Personal use only HDainelibrary.org
SR No.600072
Book TitleUpmitibhava Prapancha Katha Uttararddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1920
Total Pages422
LanguageSanskrit
ClassificationManuscript
File Size20 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy