SearchBrowseAboutContactDonate
Page Preview
Page 469
Loading...
Download File
Download File
Page Text
________________ उपमिती|| पूर्वजैः । विशेषतो गृहायातः, साम्प्रतं मानमर्हति ॥ ४३३ ॥ अहं तु शैलराजेन, विधुरीकृतचेतनः । आध्मातस्तब्धसर्वाङ्गस्तानाभाषे च. ४-प्र. तदेदृशम् ।। ४३४ ॥ यदुत-अरे विमूढाः! को नाम, तपनोऽयं ममाग्रतः । येनास्य पूजनं कुर्यामहं न पुनरेष मे ॥ ४३५ ॥ तदा-| कर्ण्य मत्रिमहत्तमैरुक्तं-देव! मा मैवं वदतु देवः, अस्य हि पूजनमकुर्वता देवेन लवितः पूर्वपुरुषक्रमः परित्यक्ता राजनीतिः प्रलयं ॥४६५॥ नीताः प्रकृतयः समुज्झितं राज्यसुखं परिहापितो विनयः अपकर्णितमस्मद्वचनं भवति, तन्नैवं वदितुमर्हति देवः, क्रियतामस्माकमनुरोधेन तपनराजस्याभ्युद्गमनं देवेनेति वदन्तः पतिताः सर्वेऽपि मम चरणयोः, ततो मृदूभूतो मनाङ् मे शैलराजीयहृदयावलेपनावष्टम्भः, केवलं संज्ञितोऽहं मृषावादेन, ततो मयाऽभिहितं न ममात्र क्षणे चित्तोत्साहः तद्गच्छत यूयं कुरुत यथोचितं अहं तु पश्चादागमिष्यामि, दत्तास्थाने राजनि प्रवेक्ष्यामीति । ततो यदाज्ञापयति देव इति वदन्तो निर्गतास्तपनाभिमुखं मन्त्रिमहत्तमा राजलोकश्च, सन्ति च तस्य तपननृपतेविविधदेशभाषावेषवर्णस्वरभेदविज्ञानान्तर्धानविज्ञातारो बहवश्वरविशेषाः, ततः केनचिच्चरेण विदितोऽयं वृत्तान्तो निवेदितस्तपनाय । इतश्च मत्रिमहत्तमैर्विहिता तपनराजस्य प्रतिपत्तिरुपस्थापितानि महाहप्राभृतानि समावर्जितं हृदयं दत्तं चास्थानं तपननरेन्द्रेण, |पृष्टा रिपुदारणवार्ता, मत्रिमहत्तमैरुक्तं-देव! देवपादप्रसादेन कुशली रिपुदारणः, समागच्छति चैष देवपादमूलमिति । ततो दत्ता ममाह्वायकाः, विजृम्भितौ शैलराजमृषावादी, ततस्ते मयाऽभिहिताः यदुत-अरे वदत तान् गत्वा, सर्वान्मत्रिमहत्तमान् । यथाकेनात्र प्रहिता यूयं, दुरात्मानो नराधमाः ॥ ४३६ ॥ ततो मया नागन्तव्यमेव, तूर्णमागच्छत यूयं, इतरथा नास्ति भवतां जीवितमिति । तदाकर्ण्य गतास्तत्समीपमाबायकाः, निवेदितं मबिमहत्तमानां मदीयवचनं, ततस्ते तत्रास्थाने सर्वे लोकाः सत्रासाः सोद्वेगा नष्टजीविताशाः परस्पराभिमुखमीक्षमाणा अहो रिपुदारणस्य मर्यादेति चिन्तयन्तः किमधुना कर्तव्यमिति विमूढाः सर्वेऽपि मदीयम रिपृदारणचेष्टा ॥४६५॥ 24 Jain Education in For Private Personal Use Only Jainelibrary.org
SR No.600071
Book TitleUpmitibhava Prapancha Katha Purvarddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy