SearchBrowseAboutContactDonate
Page Preview
Page 448
Loading...
Download File
Download File
Page Text
________________ उपमिती च. ४-प्र. ॥४४४॥ "हिणेषु अवष्टश्नन्ति परीषहेषु स्मयन्ते दिव्याधुपसर्गेषु गृहयंति प्रवचनमालिन्यं वञ्चयन्तीन्द्रियधूर्त्तगणं लुभ्यन्ति तपश्चरणेषु गृध्यन्ति मोहाद्या "वैयावृत्याचरणेषु अभ्युपपद्यन्ते सद्ध्यानयोगेषु तृष्यन्ति परोपकारकरणेषु निन्नन्ति प्रमादचौरवृन्दं बिभ्यति भवचक्रभ्रमणात् जुगुप्सन्ते * बान्धवाः "विमार्गचारिता रमन्ते निर्वृतिनगरीगमनमार्गे उपहसन्ति विषयसुखशीलतां उद्विजन्ते शैथिल्याचरणात् शोचन्ति चिरन्तनदुश्चरितानि "गर्हन्ते निजशीलस्खलितानि निन्दन्ति भवचक्रनिवासं आराधयन्ति जिनाज्ञायुवत्ति प्रतिसेवन्ते द्विविधशिक्षाललनां ॥" तदेवं सर्वकार्याणि, महामोहादिभूभुजाम् । एतेषु माम! दृश्यन्ते, जैनेषु सुपरिस्फुटम् ॥ ६९ ॥ तत्कथं भवता प्रोक्तमेवं सति ममाप्रतः । यथैते दूरतस्त्यक्ता, महामोहादिशत्रुभिः ॥ ७० ॥ विमर्शेनोदितं वत्स!, य एते भवतोदिताः । महामोहादयस्तेऽन्ये, वत्सला जैनबान्धवाः ॥ ७१॥ एते हि द्विविधा वत्स!, महामोहादयो मताः । एकेऽरयोऽत्र जन्तूनामपरेऽतुलबान्धवाः ॥ ७२ ॥ यतः-प्रथमा भवचक्रेऽत्र, पातयन्ति सदा जनम् । अप्रशस्ततया तेषां, प्रकृतिः खलु तादृशी ॥ ७३ ॥ इतरे निर्वृति लोकं, नयन्ति निकटे स्थिताः । प्रशस्तास्ते यतस्तेषां, प्रकृतिः साऽपि तादृशी ॥ ७४ ॥ तदेते शत्रुभिस्त्यक्ता, बन्धुभिः परिवेष्टिताः । महामोहादिभिर्वत्स!, मोदन्ते जैनसज्जनाः ॥७५॥ एवं च-अमी सकलकल्याणभाजिनो जैनसजनाः । निवेदिता मया तुभ्यमधुना शृणु मण्डपम् ॥७६॥ अयं चित्तसमाधानो, मण्डपः सर्वदेहिनाम् । संप्राप्तः कुरुते सौख्यमतुलं निजवीर्यतः ॥ ७७ ॥ अस्यैव भूपतेनमास्थानार्थ विनिर्मितः । वेघसा त्रिजगद्वन्धोरादरादेष मण्डपः ॥ ७८॥ नास्त्येव भवचक्रेऽत्र, सुखगन्धोऽपि सुन्दर! यावञ्चित्तसमाधानो, नैष संप्राप्यते जनैः ॥७९॥ तदेष लेशतो वत्स!, वर्णितो वरमण्डपः । एषा निःस्पृहता नाम, वेदिका ते निवेद्यते ॥८॥ ये लोका वेदिकां वत्स!, स्मरन्येना ॥४४४॥ पुनः पुनः । तेषां शब्दादयो भोगाः, प्रतिभान्ति विषोपमाः ॥ ८१॥ न तेषु वर्तते चित्तं, क्षीयते कर्मसञ्चयः । जायन्ते निर्मलत्वेन, Jain Education in For Private & Personel Use Only Pragainelibrary.org
SR No.600071
Book TitleUpmitibhava Prapancha Katha Purvarddha
Original Sutra AuthorSiddharshi Gani
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1918
Total Pages474
LanguageSanskrit
ClassificationManuscript
File Size24 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy