________________
चरा०
विचूर्णिः
३७४ ॥
Jain Education li
आघातः—यतनयाऽन्यप्राणिनामात्मनश्च विधिवत्संलिखित शरीरतया यस्मिंस्तदनाघातं संयतानाम्, आर्षत्वाद्वश्यवतां वश्या आत्मा येषां ते तथा ।। १८ ।। १४५ ॥ यथा चैतदवं तथा दर्शयति-
न इमं० || १४६ || नैव इदं पण्डितमरणं सर्वेषां भिक्षूणां किन्तु केषाञ्चिदेव भावभिक्षूणां तथा आगारिणां दूरोपास्तमेव, तथात्वे च तेषामपि तच्चतो यतित्वात् यतो नाना - अनेकविधं व्रतम् - अनेकविधभङ्गसम्भवादेशविरतेः, विषमशीलाच भिक्षवः, न सर्वेऽप्यनिदानिनोऽविकलचारित्रिणो वा तत्कालं म्रियन्ते ॥ १९ ॥ १४६ ॥ विषमशीलत्वमाह - - संति० ॥ १४७ ॥ कुप्रवचनेभ्यो भिक्षुभ्यः संयमेनोत्तराः प्रधानाः, सर्वेभ्य इत्यनुमतित्रर्जसर्वोत्तम देशविरतिप्राप्तेभ्योऽपि ॥ २० ॥ १४७ ॥ कथमेतदित्याह - चोरा० ॥ १४८ ॥ वस्त्राणि अजिनं मृगचर्मादि, नाग्न्यं 'जडि ' ति० जटित्वं, सङ्घाटी - वस्त्रसंहतिजनितमुण्डित्वम्, नैव त्रायन्ते भवात् 'परियागवं ' प्रव्रज्यापर्यायप्राप्तम् ॥ २१ ॥ १४८ ॥ अथ कथं गृहाद्यभावेऽप्यमीषां दुर्गतिरित्याह-- पिंडो० ॥ १४॥ पिण्डमवलगति-सेवते पिण्डावलगो यः स्वयमाद्दाराभावतः परदत्तोपजीवी सोऽपि, आस्तां गृहादिमान्, भिक्षादो--यतिः गृहस्थो वा, सुव्रतः क्रामति दिवम् ॥ २२ ॥ १४९ ॥ व्रतस्वरूपमेवाह-- अगारि० ॥ १५० ॥ अगारिणो- गृहिणः सामायिकाङ्गानि - निःशङ्कताकालाऽभ्यय नाणुव्रतरूपाणि अगारिसामायिकाङ्गानि, 'सड्ढि 'त्ति श्रद्धावान्, कायमनोवाग्भिः स्पृशति - सेवते, पौषधःआहारवौषधादिः तं 'दु०' द्वयोरपि सितेतरयोः पक्षयोश्चतुर्दशीपूर्णिमास्यादिषु तिथिषु, अपेर्गम्यत्वादेकमपि उपलक्षणत्वाच्चैकदिनमपि न हानिं प्रापयति, रात्रिग्रहणं च दिवा अप्राप्तौ रात्रावपि कुर्यात्पौषधम् अस्य भेदेनोपादानं तदादरख्यापनार्थम् || २३ | १५० ॥ प्रसुतमर्थमुपसंहरति-
ional
For Private & Personal Use Only
परिशि. १०
ज्ञानसागर०
अव०
आदिभागः
३७४ ॥
jainelibrary.org