SearchBrowseAboutContactDonate
Page Preview
Page 271
Loading...
Download File
Download File
Page Text
________________ जीवाजीवप्ररूपणप्रतिज्ञा अथ जीवाजीवविभक्तिरितिनाम षट्रिशत्तममध्ययनम् । * *-- अनन्तराध्ययने हिंसापरिवर्जनादयो भिक्षुगुणा उक्ताः, ते च जीवाजीवस्वरूपपरिज्ञाने सत्येवासेवितुं शक्यन्ते इति तज्ज्ञापनार्थमिदमारभ्यते, अस्य च जीवाजीवविभक्तिरिति नामजीवाजीवविभत्ति मे, सुणेहेगमणा इओ। जं जाणिऊण भिक्खू (समणो पा०), सम्मं जयइ संजमे ॥१३७४॥ • जीवाजीवानां विभजनं विभक्तिः-तत्तद्भेदादिदर्शनतो विभागेनावस्थापनं जीवाजीवविभक्तिस्तां, शृणुत, शिष्या इति शेषः, मे-मम कथयत इति गम्यं, कीदृशाः सन्तः?, एकं मतान्तरोक्तजीवाजीवविभक्तावगतत्वेन मनः-चित्तं येषां ते एकमनसः, इहैव श्रद्धानवन्त इत्यर्थः, इतः-अस्मादनन्तराध्ययनादनन्तरं, यां जीवाजीवविभक्तिं ज्ञात्वा भिक्षुः-मुनिः सम्यक्प्रशस्तं यथा स्यादेवं यतते-यत्नवान् भवति, क्व ? संयमे ॥१॥१३७४ ॥ जीवाजीवविभक्तिज्ञानमिव लोकालोकविभक्तिज्ञानमपि संयमयतनायां विषयतयोपयुज्यते एवेत्याह। जीवा चेव अजीवा य, एस लोए वियाहिए। अजीवदेसमागासे, अलोए से वियाहिए ॥१३७५॥ जीवाश्चाजीवाश्च, कोऽर्थः?-जीवाजीवरूपः, एष प्रतीतो लोको व्याख्यातो-विशेषेणोक्तः, तीर्थकृदाद्यैरिति गम्यं, अजीव इत्यनेनाजीवसमुदाय उपलक्ष्यते, स च धर्माधर्माकाशपुद्गलात्मकः, तस्य देशं अंशः, अजीवदेशः आकाशमलोकः स व्याख्यातो, धर्मास्तिकायादिवृत्तिरहितस्याकाशस्यैवालोकत्वात् ॥२॥ १३७५ ॥ SAXOXOXOXOXOXOXOXOXOXOK For Private & Personal Use Only wranwr.jainelibrary.org
SR No.600070
Book TitleUttaradhyayanani Uttararddha
Original Sutra AuthorChirantanacharya
AuthorKanchansagarsuri
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1889
Total Pages480
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size22 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy