________________
उत्तरा०४७
Jain Education I
विषयं, अमनोज्ञं-तद्विपरीतविषयं, एवमुत्तरत्रापि भावविषयरूपाद्यपेक्षया व्याख्येयं, यद्वा स्वप्नकामदशादिषु हि मनस एव भावोंपस्थापितो रूपादिरपि भाव उक्तः, स मनसो ग्राह्यः, स्वप्नकामदशादिषु हि मनसः केवलस्य व्यापार इति ।। ८७-८८ ।। १२४२१२४३ ॥ कामगुणेषु-मनोज्ञरूपादिषु गृद्धः - आसक्तः, इवार्थस्य चस्य भिन्नक्रमत्वात् करेण्याः मार्गेण - निजपथेनापहृतः- आकृष्टः करेणुमार्गापहृतो नाग इव-हस्तीव स हि मदान्धोऽप्यदूरवर्त्तिनीं करेणुं दृष्ट्वा तद्रूपादिमोहितस्तन्मार्गानुगामितया अवगृह्यते सङ्ग्रामादिषु च प्रवेश्यते तथा च विनश्यति, आह-एवं चक्षुरादीन्द्रियवशादेव गजस्य प्रवृत्तिरिति कथमस्यात्र दृष्टान्तः १, तत्त्वेन नोच्यते, प्राधान्यविवक्षया त्वेतन्नेयं, यद्वा तथाविधकामदशायां चक्षुरादीन्द्रियव्यापाराभावेऽपि मनः प्रवृत्तिरिति न दोषः, इह चानानुपूर्व्यपि निर्देशाङ्गमितीन्द्रियाणामित्थमुपन्यासः ॥ ८९-९९ ।। १२४४-१२५४ ॥
उक्तमेवार्थ सङ्क्षेपत उपसंहार व्याजेनाह
एविंदयत्थाय मणस्स अत्था, दुक्खस्स हेउं मणुयस्स रागिणो ।
ते चैव वपि कयाइ दुक्खं, न वीयरागस्स करिंति किंचि ।। १२५५ ॥
एवमुक्तन्यायेन इन्द्रियार्थाः - चक्षुरादिविषया रूपाद्याः, चस्य भिन्नक्रमत्वात् मनसोऽर्थाश्चोत्तरूपाः, उपलक्षणत्वादिन्द्रियमनांसि च दुःखस्य हेतवो मनुजस्य रागिणः, उपलक्षणत्वात् द्वेषिणश्च विपर्यये गुणमाह-ते चेन्द्रियमनोऽर्थाः स्तोकमपिस्वल्पमपि कदाचिदुःखं न-नैव वीतरागस्येति विगतरागद्वेषस्य कुर्वन्ति किश्चित् शारीरं मानसं च ॥ १०० ॥ १२५५ ॥ ननु न कश्चन भोगेषु सत्सु वीतरागः स्यादिति कथमस्य दुःखाभावः ?, उच्यते
For Private & Personal Use Only
रागिण इन्द्रियार्थी दुःखहेतवः
ainelibrary.org