________________
अथ चरणविध्याख्यमेकत्रिंशत्तममध्ययनम् ।
MARKEkkk अनन्तराध्ययने तप उक्तं, इह तु तच्चरणवत एव सम्यग्भवतीति चरणमुच्यते, अस्य चरणविधिरिति नामचरणविहिं पवक्खामि, जीवस्स उ सुहावहं । जं चरित्ता बहू जीवा, तिन्ना संसारसागरं ॥ ११३५ ।। चरणस्य-चारित्रस्य विधिः-आगमोक्तन्यायश्चरणविधिस्तं प्रवक्ष्यामि, जीवस्य तोरेवार्थस्य भिन्नक्रमत्वात् सुखावहमेव, यथा चैतदेवं तथा फलोपदर्शनद्वारेणाह-जं चरित्तेत्यादि प्राग्वत् ॥ १॥ ११३५ ॥ यथा प्रतिज्ञातमेवाह
एगओ विरई कुजा, एगओ अ पवत्तणं । अस्संजमे नियत्तिं च, संजमे य पवत्तणं ॥११३६ ॥ गाथा १९, एकतः-एकस्मात् स्थानात् विरतिं-विरमणं कुर्यात् , एकतः-एकस्मिन् चस्य भिन्नक्रमत्वात प्रवर्त्तनं च कुर्यादिति सम्बन्धः, एतदेव विशेषत आह-असंयमात्-हिंसादिरूपात् , पञ्चम्यर्थे सप्तमी, निवृत्तिं च, संयमे चस्य भिन्नक्रमत्वात् प्रवर्त्तनं, कुर्यादिति अनुवर्तते, चशब्दावुभयत्र परस्परापेक्षया समुच्चये ॥२॥ ११३६ ॥ तथा
रागहोसे य दो पावे, पावकम्मपवत्तणे। जे भिक्खू रंभई निचं, से न अ(ग पा०)च्छइ मंडले ॥११३७॥ रागद्वेषौ, चः पूरणे, द्वौ-द्विसङ्ख्यौ, एतदभिधानं च प्राकृते द्वित्वबहुत्वयोः सन्दिग्धत्वात् , उक्तार्थानामपि "अपूपी द्वावा
चारित्रविधिः
Jain Educati
For Privale & Personal use only
w.jainelibrary.org