________________
Mota XXXXXXXXXX
मकारोऽलाक्षणिकस्ततः आचार्यादिके, व्यावृत्तभावो वैयावृत्त्यं उचिताहारादिसम्पादनरूपं तस्मिन् , दशविधे दशविधं वा आचार्यादिविषयभेदाद्, उक्तं हि-"आयरिय उवज्झाए थेरतवस्सी गिलाणसेहाणं। साहम्मिअकुलगणसंघसंगयं तमिह कायबं॥१॥" आसेवनं एतद्विषयं अनुष्ठानं यथास्थाम-स्वसामर्थ्याऽनतिक्रमेण, वैयावृत्त्यं तदाख्यातम् ॥ ३३ ॥ ११३० ॥
स्वाध्यायमाह
वायणा पुच्छणा चेव, तहेव परियणा । अणुप्पेहा धम्मकहा, सज्झाओ पंचहा भवे ॥११३१ ॥ स्पष्टा ॥ ३४ ॥ ११३१॥ ध्यानमाह
अदृरुद्दाणि वजित्ता, झाइजा सुसमाहिए। धम्मसुक्काइं झाणाई, झाणं तं तु बुहा वए (वयन्ति)॥११३२॥ __ आर्तरौद्रे प्राकृतत्वात् बहुत्वं, वर्जयित्वा ध्यायेत् सुसमाहितः धर्मशुक्लध्याने स्थिराध्यवसायरूपे ध्यान-ध्यानाख्यं तपः | तोरेवार्थत्वात्तदेव बुधा वदन्ति ॥ ३५॥ ११३२॥
व्युत्सर्गमाहसयणासण ठाणे वा, जे उ भिक्खू ण वावारे । कायस्स विउस्सग्गो, छट्ठो सो परिकित्तिओ ॥ ११३३ ॥
शयने-संस्तारकादितिर्यक्शरीरनिवेशने, उभयत्र सूत्रत्वात् सुपो लुक्, स्थाने-ऊर्ध्वस्थाने, वा विकल्पे प्रत्येकं च योज्यः, स्वशत्यपेक्षं स्थित इति गम्यं, यस्तु भिक्षुर्न व्याप्रियते-न चलनादिक्रियां कुरुते, यत्तदोनित्याभिसम्बन्धादर्थवशाद्विभक्तिपरिणामाच्च, तस्य भिक्षोः कायस्य-शरीरस्य व्युत्सर्गः-चेष्टां प्रति परित्यागो यः सूत्रत्वाल्लिङ्गव्यत्यये षष्ठं तत् प्रक्रमादभ्यन्तरं तपः
वैयावृत्त्यस्वाध्यायव्युत्सर्गस्वरूपम्
XX
Jain Educatie
For Privale & Personal use only
Paw.jainelibrary.org