________________
उत्तरा०
अवचूर्णिः
॥ २३२ ॥
00X016XCXCXCX8X6
महावीरेण काश्यपेन प्रवेदितं, स्वतः प्रविदितमेव भगवता ममेदमाख्यातमिति भावः अनेन वक्तृद्वारेण प्रस्तुताध्ययनस्य माहात्म्यमाह, सम्प्रति फलद्वारेणाह - यदध्ययनं सम्यक् श्रद्धाय - सूत्रार्थोभयरूपं सामान्येन प्रतिपद्य प्रतीत्य उक्तरूपमेव विशेषत इत्थमेवेति निश्चित्य, यद्वा संवेगादिजनितफलानुभवलक्षणेन प्रत्ययेन प्रतीतिपथमवतार्य, रोचयित्वा तदुक्तार्थानुष्ठानविषयं तदध्ययनविषयं वा अभिलाषमात्मन उत्पाद्य, सम्भवति हि क्वचिद्गुणवत्तया अवधारितेऽपि कदाचिदरुचिरित्येवमभिधानं, तदुक्तानुष्ठानतः स्पृष्ट्वा पालयित्वा - तद्विहितानुष्ठानस्यातीचाररक्षणेन, तीरयित्वा तदुक्तानुष्ठानं पारं नीत्वा कीर्त्तयित्वा - स्वाध्यायविधानतः संशुद्ध्य शोधयित्वा तदुक्तानुष्ठानस्य तत्तद्गुणस्थानावासित उत्तरोत्तरशुद्धिप्रापणेन आराध्य - यथावदुत्सर्गा|पवादकुशलतया यावज्जीवं तदर्थासेवनेन, एतत्सर्वं स्वमनीषिकरणेऽपि स्यादत आह- आज्ञया - गुरुनियोगात्मिकया अनुपालय| सततमासेव्य, यद्वा स्पृष्ट्वा योगत्रिकेण, तत्र मनसा - सूत्रार्थोभयचिन्तनेन वचसा - वाचनादिना, कायेन भङ्गकरचनादिना, एवं पालनाराधनयोरपि योगत्रयं वाच्यं, पालयित्वा - परावर्त्तनादिभिरभिरक्ष्य, तीरयित्वा - अध्ययनादिना परिसमाप्य, कीर्त्तयित्वा - गुरोर्विनयपूर्वकमिदमित्थं मया अधीतमिति निवेद्य, शोधयित्वा - गुरुवदनुभाषणादिभिः शुद्धं विधाय, आराध्य - उत्सूत्रप्ररूपणादिपरिहारेणाबाधित्वा, शेषं प्राग्वत्, नवरं- आज्ञयेति जिनाज्ञया, उक्तं " हि - फासिअ जोगतिएणं पालिअमविराहिअं च एमेव । तीरिअमंतं पाविअ किट्टिअ गुरुकहण जिणमाणा ॥ १ ॥” एवं च कृत्वा किमित्याह - बहवः - अनेके जीवाः सिद्ध्यन्ति इहैवागम| सिद्धत्वादिना बुद्ध्यन्ते - धातिकर्मक्षयेण मुच्यन्ते-भवोपग्राहिकर्मचतुष्टयेन, ततश्च परिनिर्वान्ति-कर्मदावानलोपशमेन, अत एव दुःखानां - शारीरमानसानामन्तं कुर्वन्ति मुक्तिपदप्रास्या । १ । १३ ।
Jain Educational
For Private & Personal Use Only
*x*x*x*x*x*XXX
सम्यक्त्व
पराक्रमा
ध्ययनम्
२९
सम्यक्त्व
पराक्रमा
ध्ययनो
पक्रमः
॥ २३२ ॥
ainelibrary.org