SearchBrowseAboutContactDonate
Page Preview
Page 43
Loading...
Download File
Download File
Page Text
________________ OXOX १ सू० (अ) श्रुतं मे - मया हे आयुष्मन्निति सुधर्मस्वामी जम्बूस्वामिनं प्रत्याह, किं तच्छ्रुतमित्याह - तेन भुवनप्रतीतेन भगवता एवमाख्यातं कथितं, इहैव जिनप्रवचने, खलु - वाक्यालङ्कारे अवधारणे वा, २२ परीषहाः - परीति - समन्तात्स्वहेतुभिरुदीरिता मार्गाच्यवन निर्जरार्थं साध्वादिभिः सोढव्याः सन्तीति गम्यं, अथ ते परीषहाः कीदृशाः सन्तिः ? श्राम्यतीति श्रमणःतपस्वी तेन काश्यपगोत्रेण, प्रवेदिताः प्रकर्षेण स्वयं साक्षात् ज्ञाताः, नान्यतः पुरुषविशेषात् अपौरुषेयाद्वा अवगताः, यान् यतिः श्रुत्वा गुर्व्वन्तिके, ज्ञात्वा यथावदवबुध्य, जित्वा पुनः पुनरभ्यासेन परिचितान् कृत्वा अभिभूय तत्सामर्थ्यमुपहृत्य“भिक्खायरिआए बावीसं परीसहा उदीरिजंती "त्यागमात्, भिक्षाचर्यायां- भिक्षाटने परित्रजन् स्पृष्ट- आश्लिष्टः, परीषहैरेव नो विहन्येत - संयमशरीरोपघातेन विनाशं प्राप्नुयात् । १ सू० (आ) कतरे - किंनामानस्ते अनन्तरोद्दिष्टाः, शेषं प्राग्वत् । १ सू० (इ) इमेत्यनन्तरं वक्ष्यमाणतया हृदि वर्तमानत्वात्प्रत्यक्षा ये त्वया पृष्टाः, शेषं प्राग्वत् । १ सू० (ई) तद्यथेत्युदाहरणोपन्यासार्थः, दिगिंच्छेति - देशीवचसा बुभुक्षोच्यते, सैवासंयमभीरुतया आहारपरीपाकादिवाञ्छानिवर्तनेन परीति सर्वप्रकारं सह्यते इति परीपहः १ । एवं सर्वत्र योज्यं, एवं पातु मिच्छा पिपासा सैव परीषहः २ । शीतं - शिशिरस्पर्शः ३ । निदाघो दिनतापात्मकं ४ । दंशाश्च मशकाश्च यूकाद्युपलक्षणं ५ । चेलाभावो जिनकल्पिकानां अन्येषां भिन्नमल्पमूल्यं च चेलमप्यचेलं, अवस्त्राशीलादिवत् ६ । अरतिः - संयम विषयाऽधृतिः ७ । स्त्री सैव तद्गतरागहेतु गतिविभ्रमेङ्गिताकार विलोकनेsपि तदभिलापनिवर्तनेन परिषह्यमाणत्वात् ८ । चर्या - ग्रामानुग्रामं विहरणात्मिका ९ । निषेधनं निषेधः पाप Jain Educationtional For Private & Personal Use Only संक्षेपतः २२ परीषहव्याख्या v.jainelibrary.org
SR No.600069
Book TitleUttaradhyayanani Purvarddha
Original Sutra AuthorChirantanacharya
AuthorKanchanvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1882
Total Pages408
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy