________________
महानिर्ग्रन्थ| मागे
यस्तु अन्तेऽपि न तां वेत्स्यति तस्य का वार्तेत्याह
निरत्थया नग्गरुई उ तस्स, जे उत्तमढे विवयासमेइ ।
इमेवि से नत्थि परेवि लोए, दुहओऽवि से झिज्झइ तत्थ लोए ।। ७४७ ॥ निरर्थिका तुशब्दस्येह सम्बन्धान्निरर्थिकैव-निष्फलैव, नाग्ये-श्रामण्ये रुचिः-इच्छा नाग्न्यरुचिस्तस्य नान्यरुचिः, यः अपेर्गम्यमानत्वात् उत्तमार्थेऽपि-पर्यन्तसमयाराधनारूपेऽपि, आस्तां पूर्वमित्यपेरर्थः, विपर्यासं-दुरात्मतायामपि सुन्दरात्मतापरिज्ञानरूपम् , प्रत्यन्तरे सुन्दरमित्यपि दृश्यते, एति-गच्छति, इतरस्य तु कथञ्चित्स्यादपि किञ्चित्फलमिति भावः, किमेवमुच्यते ?, यतः अयमपि प्रत्यक्षो लोक इति सम्बन्धः, तस्य नास्ति-न विद्यते, न केवलमयमेव, किंतु परोऽपि लोको जन्मान्तरलक्षणः, तत्रेह लोकाभावः शरीरक्लेशहेतुलोचनादिसेवनात् परलोकाभावश्च कुगतिगमनतः शारीरमानसदुःखसम्भवात् , तथाविधोऽपि ऐहिकपारत्रिकार्थाभावेन स ऐहिकपारतिकार्यसम्पत्तिमतो जनान् विलोक्य धिग्मा अपुण्यभाजनमुभयभ्रष्ट इति चिन्तया क्षीयते, तत्रेत्युभयलोकाभावे सति लोके-जगति ॥ ४९ ॥ ७४७ ॥ यदुक्तं ‘स ज्ञास्यति पश्चादनुतापेने ति, तत्र यथाऽसौ परितप्यते तथा दर्शयन्नुपसंहारमाह
एमेवाहाछंदकुसीलरूवे. मग्गं विराहित्तु जिगुत्तमाणं ।
कुररी विवा भोगरसाणुगिद्धा, निरहसोया परितावमेह ।। ७४८ ॥ एवमुक्तरूपेणैव महाव्रतस्पर्शनादिना प्रकारेण यथा छन्दाः-स्वरुचिविरचिताचाराः कुशीलं रूपं-स्वभावो यस्यासौ कुशील
गमनता
Jain Education
anal
For Private & Personal use only
ainelibrary.org