SearchBrowseAboutContactDonate
Page Preview
Page 270
Loading...
Download File
Download File
Page Text
________________ ब्रह्मचर्य उत्तरा० अवचूर्णिः ॥१२७॥ भोयणं आहारेमाणस्स बंभयारिस्स बंभचेरे०, तम्हा खलु नो निग्गंथे अइमायाए पाणभोयणं भुंजिजा(८)।१०। नैव, अतिमात्रया-मात्रातिक्रमेण तत्र मात्रा-परिमाणं, सा च पुरुषस्य द्वात्रिंशत्कवलाः, स्त्रियः पुनरष्टाविंशतिः, उक्तं हि"बत्तीसं किर कवला आहारो कुच्छिपूरओ भणिओ। पुरिसस्स महिलिआए अट्ठावीसं भवे कवला ॥१॥” इति, अतिक्रमस्तु तदाधिक्यसेवनं, पानभोजनमाहारयिता-भोक्ता भवति यः।९।१०। नवममाह नो विभूसाणुवाई हवइ से निग्गंथे, तं कहं इति चेदायरियाह-विभूसावत्तिए विभूसियसरीरे इत्थिजणस्स अभिलसणिजे हवइ, तओ णं तस्स इत्थिजणेणं अभिलसिज्जमाणस्स बंभयारिस्स बंभचेरे०, तम्हा | खलु नो निग्गंथे विभूसाणुवाई सिया (९)।११। नैव विभूषा-शरीरोपकरणादिषु स्नानविलेपनादिभिः संस्कारस्तदनुपाती-तत्कर्मा विभूषानुपाती भवति यः स निर्ग्रन्थः, तत्किमिति चेदाचार्य आह-विभूषां वर्तयितुं-विधातुं शीलमस्येति विभूषावती स एव विभूषावर्तिकः, स किमित्याह-विभूषितशरीरः-स्नानालङ्कृतसंस्कृततनुः सन् स्त्रीजनस्याभिलषणीयः-प्रार्थनीयो भवति, "उज्वलवेषं पुरुषं दृष्ट्वा स्त्री कामयते” इति वचनात् , ततः स्त्रीजनाभिलषणीयत्वतः, णं-वाक्यालङ्कारे, तस्य निर्ग्रन्थस्य स्त्रीजनेनाभिलष्यमाणस्य ब्रह्मचारिणोऽपि सतो | ब्रह्मचर्ये शङ्का वा-यथा किमतास्तावदित्थं प्रार्थयमाना उपभुञ्जे?, आयतौ तु यद्भावि तद्भवतु, अथवा कष्टाः शाल्मलीश्लेषादयो नरके एतद्विपाका इति परिहरामीत्येवंरूपः संशयः, शेष प्राग्वत् । १० । ११ । समाधिस्थानाध्ययनम् १६ KOKO-KO-KE-KOKKOK अष्टमनवमे ब्रह्मचर्यसमाधि Fo3 स्थाने ॥१२७ । Jain Educati o nal For Privale & Personal use only jainelibrary.org
SR No.600069
Book TitleUttaradhyayanani Purvarddha
Original Sutra AuthorChirantanacharya
AuthorKanchanvijay
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1882
Total Pages408
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy