________________
उत्तरा० अवचूर्णिः
ब्रह्मचर्यसमाधिस्थानाध्ययनम्
॥१२६॥
-KeKe-KI-KAKKOK
नो स्त्रीणां इन्द्रियाणि-नयनादीनि मनः-चित्तं हरति दृष्टमात्राण्याक्षिपन्तीति मनोहराणि, मनो रमयन्ति-दर्शनानन्तरमनुचिन्त्यमानानि आह्वादयन्तीति मनोरमाणि, आलोकिता समन्ताद् द्रष्टा निर्ध्याता दर्शनानन्तरमतिशयेन चिन्तयिता, यथा अहो लवणत्वं लोचनयोः, ऋजुत्वं नासावंशस्येत्यादि, यद्वा आङ्-ईषदर्थे, तत आलोकिता-ईषद्रष्टा निर्ध्याता-प्रबन्धेन निरीक्षिता भवति यः स निर्ग्रन्थः। ५।६।
पञ्चमाह
नो निग्गंथे इत्थीणं कुडतरंसि वा दसंतरंसि वा भित्तिअंतरंसि वा कुइयसई वा रुइयसई वा गीयसई वा हसियसई वा थणियसदं वा कंदियसई वा विलवियसई वा सुणित्ता हवइ से निग्गंथे, तं कहं इति चेदाधरियाह-इत्थीणं कुडुंतरंसि जाव सुणमाणस्स बंभयारिस्स बंभचरे०, तम्हा खलु निग्गंथे नो इत्थीणं कुटुंतरंसि वा जाव सुणमाणे विहारजा (५)।७।
नो स्त्रीणां कुड्यं-खटिकालेष्टुकादिरचितं तेनान्तरं-व्यवधानं तस्मिन् कुड्यान्तरे वा, दुष्यं-वस्त्रं तदन्तरे वा, यवनिकान्तरे ही इत्यर्थः, भित्तिः पक्वेष्टकादिरचिता तदन्तरे वा स्थित्वेति शेषः, वा सर्वत्र विकल्पे, कूजितशब्द वा सुरतसमये विविधविहग
भाषया अव्यक्तशब्द, रुदितशब्द वा रतिकलहादिकं मानिनीकृतं, गीतशब्दं वा-पञ्चमादिहुङ्कतिरूपं, हसितशब्दं वा-कहकहादिक, स्तनितशब्दं वा-रतिसमयकृतं, क्रन्दितशब्द वा-प्रोषितभर्तृकादिकृताक्रन्दरूपं, विलपितशब्दं वा-प्रलापरूपं श्रोता यो न भवति स निग्रंथो, नान्यः तत्कथमित्यादि प्राग्वत् । ६।७।
XXXXXXXXXXXXX
चतुर्थपञ्चमे ब्रह्मचर्य
समाधि | स्थाने ४,५
॥१२६॥
XXX
Jain Education
anal
For Privale & Personal use only
minjainelibrary.org