________________
Jain Education I
*****
XXXX0
यत्किंचित्-आहारपानं - अशनपानीयं चस्य गम्यत्वात् खादिमस्वादिमं च परेभ्यो - गृहस्थेभ्यः लब्ध्वा प्राप्य यः, सुब्व्यत्ययात्तेनाहारादिना त्रिविधेन मनोवाक्कायलक्षणेन प्रकारत्रयेण नानुकम्पते, बालग्लानादीन् नोपकुरुते न स भिक्षुरिति शेषः, यस्तु मनोवाक्कायसुसंवृतः सन् वालादीननुकम्पत इति गम्यं स भिक्षुः, यद्वा यो ना - पुरुषोऽनुकम्पते मनोवाक्कायसुसंवृतः सन् स भिक्षुः अनेनार्थतो गृहाभावकथनादंगारदोषपरिहार उक्तः ।। १२ ।। ५०५ ॥
धूमपरिहार माह
आयामगं चैव जवोदणं च सीयं सोवीरजवोदगं च ।
नो हीलए पिंडं नीरसं तु, पंतकुलाणि परिवए स भिक्खू ।। ५०६ ।।
आचामकं - अवश्रावणं च उत्तरापेक्षया समुच्चये स्वगतानेकभेदसूची वा, एव- पूरणे, यवौदनं च-यवभक्तं शीतं - शीतलं, अंतप्रांतोपलक्षणं चैतत्, सौवीरं च आचाम्लं यवोदकं च यवप्रक्षालननीरं सोवीरयवोदकं च नो हीलयेत् - धिगिदं किमनेनामनोज्ञेनेति न निन्देत् पिण्डस्तमायामकाद्येव, तोरप्यर्थत्वान्नीरसमपि, अत एव प्रान्तकुलानि यः परिव्रजेत् स भिक्षुः ॥ १३ ॥ ५०६ ॥
तथा
onal
सद्दा विविहा भवंति लोए, दिवा माणुसया तहा तिरिच्छा । भीमा भयभेरवा उराला, जो सुच्चा ण बिहिज्जई स भिक्खू ॥ ५०७ ॥
For Private & Personal Use Only
XXXX
अङ्गारदोषधूमदोषपरि
हारता
jainelibrary.org