________________
शब्देन नेत्रसंस्कारको समीराञ्जनादि, स्नान-अपत्यार्थ मन्त्रौषधिसंस्कृतैर्जलैरभिषेचनं, वमनादीनां स्नानान्तानां समाहारद्वन्द्धः, सुब्व्यत्ययाद् आतुरस्य-रोगादिपीडितस्य, स्मरणं हा तात हा मात'रित्यादिरूपं, चिकित्सितं-चात्मनोऽशेषप्रतीकाररूपं, तदिति यदनन्तरोक्तं, द्विपरिज्ञाभ्यां परिज्ञाय प्रत्याख्याय च परिव्रजेत्-सर्वप्रकारं संयमाध्वनि यायात् यः ॥८॥५०१॥ अन्यच्च
खत्तियगणउग्गरायपुत्ता, माहणभोई य विविहा य सिप्पिणो।
नो तेसिं वयह सिलोगपूअं तं परिन्नाय परिवए स भिक्खू ॥५०२॥ क्षत्रियाः-राजानः, गणा-मल्लादिसमूहाः उग्रा-आरक्षकादयः राजपुत्राः-नृपसुताः, एतेषां द्वन्द्वः, माहना:-ब्राह्मणाः, भोगेन-विशिष्टनेपथ्यादिना चरन्तीति भौगिका नृपमान्याः, अमात्यादयः, उभयत्र सुपो लोपः, विविधाश्च शिल्पिनः-स्थपत्यादयः ये इति शेषः, नैव तेषां क्षत्रियादीनां वदति, श्लोकपूजे श्लोकं पूजां च, यथैते शोभना इति, पूजां च, यथैतान् पूजयतेति, उभयत्र पापानुमत्यादिदोषसम्भवात् , किंतु तत् श्लोकपूजादिकं द्विविधया परिज्ञया परिज्ञाय परिव्रजेत् यः॥९॥५०२॥ अनेन वनीपकत्वपरिहारमुक्त्वा अधुना संस्तवपरिहारमाह
गिहिणो जे पचइएण दिहा, अप्पबईएण व संथुया हविजा। तेसिं इहलोयफलट्टयाए, जो संथवं न करेइ स भिक्खू ॥ ५०३ ॥
क्षत्रियादिप्रशंसाऽभावः।
Jain Educa
t
ional
For Private & Personal use only
Pow.jainelibrary.org