________________
॥ अथ नवमं नमिप्रव्रज्याध्ययनम् ॥
अनन्तराध्ययने निर्लोभत्वमुक्तं अस्मिंश्चाध्ययने इहैव निर्लोभो देवेन्द्रादिपूज्यः स्यादित्यनेन सम्बन्धेनायातं नमिप्रव्रज्याख्यमध्ययनं व्याख्यायते
चइऊण देवलोगाओ उववन्नो माणुसंमि लोगंमि । उवसंतमोहणिज्जो सरती पोराणियं जाइं ॥ २२८॥ च्युत्वा देवलोकादुत्पन्नः मानुषे-मानुषसम्बन्धिनि लोके-प्राणिगणे, उपशान्तं-अनुदयप्राप्तं मोहनीयं-दर्शनमोहनीयं यस्य सः, स्मरतीति वर्तमाननिर्देशः तत्कालापेक्षया, पौराणिकी-चिरन्तनी जाति-उत्पत्तिं, देवलोकादाविति प्रक्रमः तद्गतसकलचेष्टोपलक्षणं चैव जातिरिति । अत्र सम्प्रदायो यथा-(६० ४७)
विदेहदेशे मिथिलापुर्या विदेहदेशी नमिराजा, अन्यदा महाहृदयदाहे जाते सति सर्वान्तःपुरीभिश्चन्दने घृष्यमाणे वलयखलाररावेण कर्णातौ जातायामेकैकवलये खलाररावमश्रुत्वा प्रबुद्धश्चेद् रोगान्मुच्ये तदा प्रव्रज्यामीति चिन्तयन् सुप्तः, स्वप्ने देवभवे जिनजन्मादिषु सुपरिचितं मेरुं वीक्ष्य प्रबुद्धो जातिं स्मृत्वा प्रत्रजितः, उक्तं हि-"बहुआणं सहयं सुच्चा, एगस्स य असद्दयं । वलयाण नमीराया, निक्खंतो मिहिलाहिवो ॥१॥" (उ०नि० २७४ )॥२२८ ॥
सम्प्रति यथाप्रव्रजितस्तथाऽऽहजाइं सरितु भयवं सहसंबुद्धो अणुत्तरे धम्मे । पुत्तं वित्तु रख्ने अभिनिक्खमति नमी राया ॥ २२९ ॥
नमिराजोत्पत्तिः
उत्तरा०११
Jain Education
a
l
For Privale & Personal use only
inelibrary.org