________________
उत्तराध्य.
बृहद्वृत्तिः
॥७१२॥
Jain Education
| रस्येति भवसिद्धिकः स चासौ संवृतश्चाश्रवनिरोधेन भवसिद्धिकसंवृतः, ज्ञातविशेषणमेतत्, अथवा 'पाउकरे' ति 'प्रादुरकार्षीत्' प्रकाशितवान् शेषं पूर्ववत् नवरं 'परिनिर्वृतः क्रोधादिदहनोपशमतः समन्तात्स्वस्थीभूतः, एतेन "सत्यानृतत्व संदेहैः, सर्वमेव वचस्त्रिधा ” इति प्रसिद्धेस्त्रैविध्यसम्भवेऽपि वचनरूपत्वेनोत्तराध्ययनानां वक्तृदोषहे| तुकत्वादनृतत्वसन्देहयोर्वक्तृदोषाभावख्यापनेनैकान्तसत्यत्वलक्षणं माहात्म्यमाहेति सूत्रार्थः ॥ निर्युक्तिकारोऽप्येत
न्माहात्म्यख्यापनायाह
जे किर भवसिद्धीया परित्तसंसारिआ य भविआ य । ते किर पढंति धीरा, छत्तीसं उत्तरज्झयणे ॥ जे हुंति अभवसिद्धीया गंथिअसत्ता अनंतसंसारा । ते संकिलिट्ठकम्मा अभविय उत्तरज्झाए॥ ५५८ ॥
'ये' इत्यनिर्दिष्टनिर्देशे 'किल' इति सम्भावने 'भवसिद्धिकाः ' भव्याः परीतः - प्राग्वत् परिमितः स चासौ संसारश्च तद्वन्तः परीत्तसंसारिकाः 'अत इनिठना' विति ( पा० ५ - २ - ११५) मत्वर्थीयष्ठन् कोऽर्थः ? - तथाभव्यत्वाक्षिप्तप्रत्यासन्नीभूतमुक्तयः 'भव्याः' सम्यग्दर्शनादिगुणयोग्या भिन्नग्रन्थय इति योऽर्थः उभयत्र 'चः' समुच्चये इति, | व्यवच्छेदफलत्वाद्वा वाक्यस्य त एव, 'किल' इति परोक्षातसूचकः, 'पठन्ति' अधीयते धीराः प्राग्वत् कानि ? | इत्याह- 'छत्तीसं 'ति षट्त्रिंशद् 'उत्तराध्ययनानि' विनयश्रुतादीनि भवसिद्धिकादीनामेतत्पाठफलस्य सम्यग्ज्ञानादेः
For Private & Personal Use Only
जीवाजीव
विभक्ति०
३६
॥७१२॥
Jainelibrary.org