________________
पूरणे 'हिंसकाः' प्राण्युपमर्दकारिणः 'इति' इत्येवंरूपा ये 'नियन्ते' प्राणांस्त्यजन्ति जीवास्तेषां पुनर्दुर्लभा 'बोधिः' प्रेत्य जिनधर्मावाप्तिः । सम्यग्दर्शनम्-उक्तखरूपं तस्मिन् रक्ताः सम्यग्दर्शनरक्ताः अनिदानाः 'शुक्ललेश्याम्' उक्तलक्षणाम् 'अवगाढाः' प्रविष्टा इति, ये नियन्ते जीवाः सुलभा तेषां भवेद्बोधिः। मिच्छासूत्रं प्राग्वत्, ननु पुनरुक्तत्वादनर्थकमिदं सूत्रं, कृष्णलेश्यावगाहनमपि हिंसकत्वेन पञ्चाश्रवप्रमत्तत्वादितल्लक्षणाभिधानादर्थत उक्तमेवेति,
अत्रोच्यते, नैवं, विशेषज्ञापनार्थत्वादस्य, उक्तं हि-"पुवभणियं तु पुच्छा जंभण्णति तत्थ कारणं बेति। पडिसहो य ४ अणुन्ना करण (हेउ) विसेसोवलंभा वा ॥१॥" विशेषश्च सर्वत्र तथाविधसंक्लिष्टपरिणामरूपता द्रष्टव्या, अन्यथा हि
सामान्येनैतद्विशेषणविशिष्टानामपि तद्भवे भवान्तरे वा बोधिदर्शनाद्यभिचार्येवेदं भवेदिति । इह चायेन सूत्रेण कन्दर्पभावनादीनां दुर्गतिरूपानर्थस्य निवन्धनत्वमुक्तमर्थाच तद्विपरीतभावनानां सुगतिखरूपार्थस्य द्वितीयेन मिथ्यादर्शनरक्तत्वादीनां दुर्लभबोधिलक्षणानर्थस्य तृतीयेन सम्यग्दर्शनरक्तत्वादीनां सुलभवोध्यात्मकार्थस्य चतुर्थेन उक्तनीत्या मिथ्यादर्शनरक्तत्वादीनामेव विशेषज्ञापनमिति सूत्रचतुष्टयार्थः ॥ अन्यच्च-जिनवचनाराधनामूलमेव सकलं संलेखनादि श्रेयोऽतस्तत्रैवाऽऽदरख्यापनायान्वयव्यतिरेकाभ्यां तन्माहात्म्यमाह
१ पूर्वभणितमपि यत्पश्चाद्भण्यते तत्र कारणं ब्रुवति । प्रतिषेधश्चानुज्ञा कारणविशेषोपलम्भो वा ॥१॥
Jain Education
For Private & Personel Use Only
|www.jainelibrary.org