________________
Jain Education
तश्च क्षपणेन 'तपः' इति प्रस्तावाद्भक्तपरिज्ञानादिकमनशनं 'चरेत्' अनुतिष्ठेत्, निशीथचूर्णिसम्प्रदायश्चात्र- "अन्नेवि दोवि वरिसे चउत्थं काउं आयंबिलेण पारेइ, एक्कारसमे य वरिसे पढमं छम्मासं अविगिट्ठे तवं काउं कंजिएण पारेइ, वितिऐ छम्मासे विहिं तवं काउं आयंबिलेण पारेइ, दुवालसमं वरिसं निरंतरं हीयमाणं उसिणोदएण आयंबिलं करेति, तं कोडीसहियं भणति जेणायंचिलस्स कोडी कोडीए मिलर, जहा य दीवस्स वत्ती तेलं च समं पिट्ठाइ तहा वारसमे वरिसे आहारं परिहावेइ जहा आहारसंलेखना आउयं च समं णिटुवति, इत्थं बारसगस्स वासस्स पच्छिमा जे चत्तारि मासा तेसु तेलगंडूसे णिसट्टे धरितु खेल्लमलगे णिहुहइ मा अतिरुक्खत्तणओ मुहजं - | तविसंवाओ भविस्सर, तस्स य विसंवादे णो संमं णमोकारं साहेति " इति सूत्रपञ्चकार्थः ॥ इत्थं प्रतिपन्नानशनस्याप्यशुभभावनानां मिथ्यादर्शनानुरागादीनां च परिहार्यतां तद्विपर्ययाणामासेव्यतां च ज्ञापयितुं यथाक्रममनर्थहेतुतामर्थहेतुतां च दर्शयन्नाह -
१ अन्ये अपि द्वे वर्षे चतुर्थं कृत्वाऽऽचामाम्लेन पारयति, एकादशे च वर्षे प्रथमं षण्मासान् अविकृष्टं तपः कृत्वा काञ्जिकेन पारयति, २ द्वितीयेपु षट्सु मासेषु विकृष्टुं तपः कृत्वाऽऽचामाम्लेन पारयति द्वादशे तु वर्षे निरन्तरं हीयमानमुष्णोदकेना चामाम्लं करोति, तत्कोटीसहितं भण्यते येनाचामाम्लस्य कोटी कोट्या मिलति, यथा च दीपस्य वर्त्ती तैलं च समं निस्तिष्ठतः तथा द्वादशे वर्षे आहारं परिहापयति यथाऽऽहारसंलेखना आयुश्च समं निस्तिष्ठतः, अत्र द्वादशस्य वर्षस्य पश्चिमा ये चत्वारो मासास्तेषु तैलगण्डूपान् निसृष्टं (अतिशयेन) धृत्वा श्लेष्म मल्लके निक्षिपति, माऽतिरूक्षत्वात् मुखयन्त्रविसंवादो भूदिति, तस्य च विसंवादे न सम्यक् नमस्कारं साधयेत् ( पठेत् )
For Private & Personal Use Only
%%%%%% *% *% *%9
& ww.jainelibrary.org