SearchBrowseAboutContactDonate
Page Preview
Page 384
Loading...
Download File
Download File
Page Text
________________ उत्तराध्य. जीवाजीव विभक्ति. बृहद्वृत्तिः ॥७०२॥ असुरेत्यादिसूत्राण्येकादश प्रायः प्रतीतान्येव, नवरम् 'असुराः' इत्यसुरकुमाराः, एवं नागादिष्वपि कुमारशब्दः सम्वन्धनीयः, सर्वेऽपि बमी कुमाराकारधारिण एव, यथोक्तं-"कुमारषदेव कान्तदर्शनाः सुकुमाराः मृदुमधुरललितगतयः शृङ्गाराभिजातरूपविक्रियाः कुमारवचोद्धतरूपवेषभाषाभरणप्रहरणावरणयानवाहनाः कुमारवचोखणरागाः क्रीडनपराश्चेत्यतः कुमारा इत्युच्यन्ते"। 'तारागणाः' इति प्रकीर्णकतारकसमूहाः, दिशासु विशेषेणमेरुपादक्षिण्यनित्यचारितालक्षणेन चरन्ति-परिभ्रमन्तीत्येवंशीला दिशाविचारिणः, तद्विमानानि ोकादशभिरेकविंशोजनशतैर्मरोश्चतसृष्वपि दिवबाधया सततमेव प्रदक्षिणं चरन्तीति तेऽप्येवमुक्ताः, ज्योतींषि-उक्तन्यायतो विमानान्यालया-आश्रया येषां ते ज्योतिरालयाः । कल्प्यन्ते-इन्द्रसामानिकत्रायस्त्रिंशादिदशप्रकारत्वेन देवा एतेविति कल्पा-देवलोकास्तानुपगच्छन्ति-उत्पत्तिविषयतया प्रामुवन्तीति कल्पोपगाः, कल्पान्-उक्तरूपानतीताः-तदुपरिवर्तिस्थानोत्पन्नतया निष्क्रान्ताः कल्पातीताः। 'सोहम्मीसाणग'त्ति सुधर्मा नाम शक्रस्य सभा(सा):स्मिन्नस्तीति सौधर्मः कल्पः स एपामवस्थितिविषयोऽस्तीति सौधर्मिणः, तथेशानो नाम द्वितीयदेवलोकस्तन्निवासिनो देवा अपि ईशानास्त एवेशानकाः एवमुत्तरत्रापि व्युत्पत्तिः कार्याः। ग्रीवेव ग्रीवा लोकपुरुषस्य त्रयोदशरज्जूपरिवर्ती प्रदेशस्तस्मिन्निविष्टतयाऽतिभ्राजिष्णुतया च तदाभरणभूता अवेया-देवावासास्तन्निवासिनो देवा अपि वेयाः, न विद्यन्ते उत्तराः-प्रधानाः स्थितिप्रभावसुखद्युतिलेश्यादिभिरेभ्योऽन्ये देवा इत्यनुत्तराः, 'हेछिम'त्ति ॥७०२॥ For Private Personal Use Only in Education Ptjainelibrary.org
SR No.600068
Book TitleUttaradhyayani Part_3
Original Sutra AuthorBhadrabahuswami, Shantisuri
Author
PublisherDevchand Lalbhai Pustakoddhar Fund
Publication Year1917
Total Pages408
LanguageSanskrit, Hindi
ClassificationManuscript & agam_uttaradhyayan
File Size19 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy