________________
जीवाजीव | विभक्ति
उत्तराध्य. सप्तव सागरोपमाणि तूत्कृष्टेन व्याख्याता तृतीयायां, जघन्येन पुनस्त्रीण्येव सागरोपमाणि, दश सागरोपमाणि बृहद्वृत्तिः
तूत्कृष्टेन व्याख्याता चतुर्यो, जघन्येन सप्तैव तु सागरोपमाणि । सप्तदश सागरोपमाणि तूत्कृष्टेन व्याख्याता
पञ्चम्यां, जघन्येन दश चैव तु सागरोपमाणि द्वाविंशतिः सागरोपमाणि तूत्कृष्टेन व्याख्याता षष्ठयां, जघन्येन सप्त॥६९७॥ दश सागरोपमाणि । त्रयस्त्रिंशत्सागरोपमाणि तत्कृष्टेन व्याख्याता सप्तम्यां नरकपृथिव्यां, जघन्येन द्वाविंशतिः
सागरोपमाणि ॥ आयुःस्थितिरुक्ता, कायस्थितिमाह-'या चेति चशब्दो वक्तव्यतान्तरोपन्यासे 'एवेति भिन्नक्रमः |'चः' पुनरर्थः, ततो यैव च पुराऽऽयुःस्थिति रयिकाणां व्याख्याता 'सि'त्ति एवकारस्य गम्यमानत्वात्सैव तेषां कायस्थितिर्जघन्योत्कृष्टा भवेत् , इत्थं चैतत् , तत उदृत्तानां पुनस्तत्रैवानुपपत्तेः, ते हि तत उद्धृत्य गर्भजपर्याप्तकस
वयेयवर्षायुष्ष्वेवोपजायन्ते, यत उक्तम्-"णरगाओ उबट्टा गम्भे पजत्तसंखजीवीसु । णियमेण होइ वासो" इत्यादि। ६ अन्तरविधानाभिधायि सूत्रद्वयं प्राग्वत् , नवरमन्तर्मुहूर्त जघन्यमन्तरं, यदाऽन्यतरनरकादुदृत्य कश्चिजीवो गर्भजपर्याप्तकमत्स्यादिषत्पद्यते, तत्र चातिसंक्लिष्टाध्यवसायोऽन्तर्मुहुर्तमानायुः प्रतिपाल्य मृत्वाऽन्यतमनरक एवोपजायते तदा लभ्यत इति भावनीयमिति चतुर्दशसूत्रार्थः॥ इत्थं नैरयिकानभिधाय तिरश्च आहपंचिंदियतिरिक्खा उ, दुविहा ते वियाहिया। समुच्छिमतिरिक्खा उ, गन्भवतिया तहा ॥ १६९॥ १ नरकादुद्वृत्तानां गर्भजेषु पर्याप्तसंख्यजीविषु नियमात् भवति वासः।
॥६९७॥
Jain Education inted
For Private & Personel Use Only
jainelibrary.org